________________
-%%
%96-
-04-
all पूर्वसाइतिकदेवप्रयुक्तया क्रियया, तथाहि-पछनि पूर्वसाङ्गतिको देवः पूर्वपरिचितस्य नैरयिकस्य वेदनोपशमनार्थ यथा बलदेवः कृ-15
ष्णवासुदेवस्य, स च वेदनोपशमी देवकृतो मनाकालमात्र एव भवति, तत ऊर्ध्व नियमात्क्षेत्रस्वभावजाऽन्योऽन्या वा वेदना प्रवर्तते, तथास्वाभाब्यात् , 'अज्झवसानिमित्त मिति अध्यवसानिमित्तं सम्यक्त्वोत्पादकाले तत ऊर्च कदाचित्तथाविधविशिष्टशुभाध्यकसायप्रत्ययं कश्चिद् नैरयिको बाह्यक्षेत्रस्वभावजवेदनासद्भावेऽपि सातोदयमेवानुभवति, सम्यक्त्वोत्पादकाले हि जात्यन्धस्य चक्षुर्लाभ इव महान् प्रमोद उपजायते, तदुत्तरकालमपि कदाचित्तीर्थकरगुणानुमोदनाद्यनुगतां विशिष्टां भावनों भावयतः, ततो बाह्यक्षेत्रस्तभावजवेदनासद्भावेऽप्यन्तः सातोदयो बिजम्भमाणो न विरुध्यते, 'अहवा कम्माणुभावेण मिति अथवा 'कर्मानुभावन' बायतीर्थंकरज|न्मदीक्षाज्ञानापवर्गकल्याणसंभूतिलक्षणबाह्यनिमित्तमधिकृत्य तथाविधस्य च सातवेदनीयस्य कर्मणोऽनुभाबेन--विपाकोदयेन क[श्वित्सात वेदयते, न चैतद्व्याख्यानमनार्ष यत उक्तं वसुदेवचरिते, इह नैरयिकाः कुम्भ्यादिषु पच्यमानाः कुन्तादिभिर्भियमाना| वा भयोबस्तास्तथाविधप्रयत्नशामुगुवन्ते, सतस्तदुत्पातपरिमाणप्रतिपादनार्थमाह-नैरयिकाणां दुःखेनाभिद्रुताना-सर्वात्मना व्यासानां 'वेदनाशतसंप्रगाढानां' वेदनाशतानि-अपरिमिता वेदनाः संप्रगाढरनि-अवगाढानि येषां ते बेदनाशततप्रगाढाः सुखादिदर्श| नात् निष्ठान्तस्य परनिपातः, तेषां हेतुहेतुमद्भावश्चात्र, यतो वेदनाशतसंप्रगाढास्ततो दुःखेनाभिठ्ठताः, तेषां जयन्यत उत्पातो गब्यूतमात्रम् , एतच संप्रदायादवसीयते, तथा च दृश्यते कचिदेवमपि पाठः-"नेरझ्यागुप्पाओ गाउय उक्कोस पंचजोयणसयाई” इति, उत्कर्षतः पञ्च योजनशतानि इति । दुःखेनाभिहतानामिन्युक्तं ततो दुःखमेव निरूपयति-नरके नैरयिकाणामुष्णवेदनया शीतवेदनया वाऽहर्निशं पच्यमानानां न 'अक्षिनिमीलनमात्रमपि अक्षिनिकोचकालमात्रमपि अस्ति सुखं, किन्तु दुःखमेव केवलं 'प्रतिबद्धम्
06
SARA%A9%8A
-%--