________________
***
I'लमू ग्लाना' इति वचनात् , एका महती 'पुष्करिणी” पुष्कराण्यस्यां विद्यन्ते इति पुष्करिणी ता, किंविशिष्टामित्याह--'चतु
कोणां' चत्वारः कोणा-अश्रयो यस्याः सा तथा तां, सम...निगमोलतिवर्तितं नुसावत की पदं यात्रा, सा समतीरा ताम्, आनु पूर्येण-नीचैर्नीचैस्तरभावरूपेण न कहेलयैव क्वचिद् रूपा कचिदुन्नतिरूपा इति भावः, सुष्टु-अतिशयेन यो जातो वर:-केवारो जलस्थानं तत्र गम्भीरम्-अलब्धस्ताचं शीतलं जलं यस्यां सा आनुपूर्व्यसुजातवप्रगम्भीरशीतलजला ताम्, 'संछण्णपत्तभिसमुणाल'मिति संछन्नानि-जलेनान्तरितानि पत्रबिसमृणालानि यस्यां सा संछनपत्रबिसमूणाला ताम्, इह बिसमृणालसाहचर्यात् पत्राणि --पमिनीपत्राणि द्रष्टव्यानि, बिसानि-कन्दा: मृणालानि-पद्मनालाः, तथा बहुभिरुत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापु|ण्डरीकशतपत्रसहस्रपत्रैः केसरैः केसरप्रधानैः फुल्दै:-विकसितैरुपचिता बहूत्पलकुमुदनलिनसुभगसौगन्धिकपुण्डरीकमहापुण्डरी
कशत्तपत्रसहस्रपत्रकेसरफुल्लोपचिता तां, तथा पट्पदैः-भ्रमरैः परिभुज्यमानानि कमलानि उपलक्षणमेतत् कुमुदादीनि यस्याः सा | दषटपदपरिभुज्यमानकमला तां, तथाऽन्छेन-स्वरूपतः स्फटिकवच्छद्धन विमलेन-आगन्तुकमलरहितेन सलिलेन पूर्ण अच्छविमल
सलिलपूर्णा तां, तथा पडिहत्था-अतिरेकता (त:) अतिप्रभूता इत्यर्थः भ्रमन्तरे मत्स्यकच्छपा यस्यां सा पडिहस्थभ्रमन्मत्स्यकच्छपा, तथा अनेकैः शकुनिगणमिथुनकै गणशब्दस्य प्राकृतवादस्थानेऽप्युपनिपातः, शकुनिमिथुनकैर्विचरित:-इतस्ततः खेच्छया प्रवृत्तैः शब्दोअतिकम्-उन्नतशब्दं मधुरखरं नादितं यस्यां सा अनेकशकुनिगणमिथुनकविचरिसशब्दोन्नतिकमधुरखरनादिता, ततः पूर्वपदेन विशेषणसमासः, तां दृष्ट्वाऽवगाहेत, अवगाह्य च 'उष्णमपि परिदाहमपि शरीरस्य तत्र 'प्रविनयेत' प्रकर्षेण सर्वासना स्फोटयेत्, तथा क्षुधामपि प्रविनयेत् प्रत्यासन्नतटवर्तिशलक्यादिकिसलयभक्षणात, तृषमपि प्रविनयेत् जलपानात, परमपि परिसंतापसमुत्थं प्रवि
*KARANASIC