SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ वा अविध्वस्तं वा पुनरपि प्रत्युद्धर्तुम् , एवरूपा नाम तत्रोष्णवेदना ॥ अस्यैवार्थस्य स्पष्टतरभावनार्थ दृष्टान्तान्तरमाइ–से जहा-17 नामए' इत्यादि, 'से' सकलजनप्रसिद्धो यथेति दृष्टान्तत्वोपदर्शने वाशब्दो विकल्पने, अयं या दृष्टान्तो विवक्षितार्थप्रतिपत्तये बोद्धव्य | इति विकल्पनभावना, 'मत्तः' मदकलितः 'मातङ्गः हस्ती, इह मातङ्गोऽन्यजोऽपि संभवति ततस्तदाशङ्काव्युदासाथै नानादेशजविनेयजनानुप्रहाय (वा) पर्यायद्वयमाह--'द्विपः' द्वाभ्यां मुखेन करेण चेत्यर्थः पिबतीति द्विपः, 'मूलविभुजादय' इति कात्ययः, को जीर्यतीति कुञ्चरः, यदिवा कुओ-वनगहने रमति-रतिमाबध्नातीति कुक्षर: 'कचिदिति उप्रत्ययः, षष्टिायना:-संवत्सरा यस्य स षष्टिहायनः 'प्रथमशरत्कालसमये कार्त्तिकमाससमये, इह प्राय ऋतत्रः सूर्यर्तवो गृह्यन्ते ते चाषाढायो द्विद्विमासप्रमाणाः, प्रवचने च क्रमेणैर्वनामानः, तद्यथा-प्रथमः प्रावृद् द्वितीयो वर्षारानः तृतीयः शरत् चतुर्थों हेमन्त: पञ्चमो बसन्तः पष्ठो प्रीष्मः, तथा चाह पादलिप्तसूरिः-"पाउस वासारसो, सरओ हेमंत वसन्त गिम्हो य । एए खलु छपि रिऊ, जिणवरदिवा मए सिट्टा ॥१॥" तत: प्रथमशरत्कालसमयः कार्तिकसमय इति विवृत्तम् , आह च मूलटीकाकृत्-"प्रथमशरत्-कार्तिकमासः" तस्मिन् वाशब्दो विकल्पने 'चरमनिदाघकालसमये वा' घरमनिदाघकालसमयो-ज्येप्तमासपर्यन्तस्तस्मिन् , वाशब्दो विकल्पने, 'उष्णाभिहतः सूर्यखरकिरणप्रतापाभिभूतः, अत एवोष्णः सूर्यकिरणैः सर्वतः प्रतामाङ्गतया शोषभावतस्तृषाभिहतः, तत्रापि पानीयगवेषणार्थमितस्ततः खेच्छया परिभ्रमतः कथञ्चिद्दवाग्निप्रत्यासत्तौ गमनतो वाग्निज्वालाभिहनः अत एव 'आतुरः' कचिदपि स्वास्थ्यमलभमानः सन् (आकुलः, सर्वाङ्गपरितापसम्भवेन गलतालुशोपभावात् शुषितः, कचित् 'झिजिए' इति पाठस्तत्र 'क्षित' क्षणशरीर इति व्यास्येयम् , असाधारणतृड्वेदनासमुच्छलमात्पिपासितः, अत एव दुर्बल: शारीरमानसावष्टम्भरहितस्वात् , 'क्लान्तः' ग्लानिमुपगतः -रे -* * % %
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy