________________
भंते !" इत्यादि, उष्णवेदनेषु णमिति पूर्ववत् भदन्त ! नरकेषु नैरयिकाः कीदृशीमुष्णवेदनां प्रत्यनुभवन्तः - प्रत्येकं वेदयमाना विह रन्ति ?, भगवानाह - गौतम ! स ' यधानामकः' अनिर्दिष्टनामकः कश्चित् 'कम्मरिदारकः' लोहकारदारकः स्यात्, किंविशिष्ट: ? इत्याह- 'तरुणः' प्रवर्द्धमानवयाः, आशाकः माएर अति मिनेन विशेषणेन ?, न, आसनमृत्योः प्रवर्द्धमा. नवयस्त्वाभावात् न ह्यासन्नमृत्युः प्रबर्द्धमानत्रया भवति न च तस्य विशिष्टसामर्थ्यसम्भवः, आसनमृत्युत्वादेव, विशिष्टसामर्थ्यप्रतिपादनार्थचैष आरम्भस्ततोऽर्थवद्विशेषणम्, अन्ये तु व्याचक्षते - इह यत्र्यं विशिष्टवर्णादिगुणोपेतमभिनवं व तत्तरुणमिति लोके प्रसिद्धं यथा तरुणमिदमश्वत्थपत्रमिति, ततः स कर्मारदारकस्तरुण इति किमुक्तं भवति ? - अभिनवो विशिष्टवर्णादिगुणोपेतश्चेति, धलं - सामर्थ्य तदस्यास्तीति बलवान्, तथा युगं - सुषमदुष्पमादिकालः स खेन रूपेण यस्यास्ति न दोषदुष्टः स युगवान् किमुक्तं भवति ? - कालोपद्रवोऽपि सामर्थ्यविघ्नहेतुः स चास्य नास्तीति प्रतिपत्यर्थमेतद्विशेषणं, युवा-यौवनस्थः, युवावस्थायां हि बलातिशय इत्येतदुपादानम्, 'अप्पार्थके' इति अल्पशब्दोऽभाववाची अल्पः - सर्वथाऽविद्यमान आवको ज्वरादिर्थस्यासावल्पातङ्कः, 'थिरगहत्थे ' स्थिरौ अप्रहस्तौ यस्य स स्थिरामहस्तः, 'दढपाणिपायपासपितरोरुपरिणए' इति दृढानि - अतिनिविडचयापन्नानि पाणिपादपार्श्वपृष्ठान्तरोरूणि परिणतानि यस्य स दृढपाणिपादपार्श्वपृष्ठान्तरोरुपरिणतः, सुखादिदर्शनात्पाक्षिको निधान्तस्य परनिपातः, तथा ध नम्-अतिशयेन निचितौ - निविडतरचयमापन्नों वलिताविव वहिती वृत्ती स्कन्धौ यस्य स धननिचितवतिवृत्तस्कन्धः, 'चम्मेङगदुघणमुट्ठियसमाहय निचियगाय गत्ते' चर्मेष्टकेन दुषणेन मुष्टिकया च मुट्या च समाहत्य ये निचितीकृतगात्रास्ते चर्मेष्टकद्रुपणमुष्टिकसमाहतनिचितगात्रास्तेषामिव गात्रं यस्य स धर्मेष्टकद्रुवणमुष्टिकसमाहत निचितगात्रगात्रः, 'उरस्सबल समन्नागए' इति उरसि