________________
तथा 'नित्य सर्वकालं स्वत एवाप्रेऽपि त्रस्ताः' परमाधार्मिकदेवपरस्परोदीरितदुःखसंपातभयात्रासमुपपन्नाः, वथा नित्य' सर्वकालं परमाधार्मिकैः परस्परं वा 'त्रासिताः' त्रासं प्राहिताः, तथा 'नित्यमुद्विग्नाः' यथोक्तरूपदुःखानुभवतस्तद्गतावासपराअखचिसाः, तथा 'नित्यं सर्वकालम् 'उपप्लुताः' उपलकेनोपेता न तु मनागपि रतिमासादयन्ति, एवं 'नित्ये' सर्वकालं परममशुभम् 'अतुलम् अशुभखेनानन्यसहशम् 'अनुबद्धम्' अशुभलेन निरन्तरमुपचितं निरयभवं 'प्रत्यनुभवन्तः प्रत्येक वेदयमाना विहरन्सि, एवं पृ[थिव्यां पृथिव्यां तावद्वक्तव्यं यावदधःसप्तमी, अस्यां चाधःसप्तम्यां करकर्माणः पुरुषा उत्पगन्ते नान्ये, तथा चास्यैवार्थस्य प्रदर्शनार्थ पञ्च पुरुषान् उपन्यस्यति-'अहेसत्तमाए णमित्यादि, अधःसप्तम्यां पृथिव्यामप्रतिष्ठाने नरके 'इमे' अनन्तरं वक्ष्यमाणस्वरूपाः पश्च महापुरुषा: 'अनुत्तरैः' सर्वोत्तमप्रकर्षप्राप्त: 'दण्डसमादानः' समादीयते कर्म एभिरिति समादानानि-कोपादानहेतवः दण्डा एव-मनोदण्डादयः प्रागम्यपरोपणाचपसायरूपाः सनापानानि इण्डसनादानानि तैः कालमासे कालं कुलोत्पन्नाः, तद्यथा-रामो जामदग्निसुत: पशुराम इत्यर्थः, दाढादालः छातीसुतः, वसू राजा उपरिचर:, स हि देवताऽधिष्ठिताकाशस्फटिकसिंहासनोपविष्टः सम्नाकाशस्फटिकमयस्य सिंहासनस्यादर्शनतो लोकेष्वेवं प्रसिद्धिमगमत-सत्यवादी किलैष वसुराजा न प्राणात्ययेऽप्यलीक भाषते ततः सत्वावर्जितदेवताकृतप्रातिहार्य एवमुपर्याकाशे चरतीति, स चान्यदा हिंस्रवेदार्थप्ररूपकस्य पर्वतस्य पश्मभिगृह्य सम्यग्दृष्टेनारवस्य पक्षमनभिगृहन्नलीकवादिलात्प्रकुपितदेवताचपेटाहतः सिंहासनात्परिभ्रष्टो रौद्रध्यानमभिरूढः सप्तमपृथिव्यामप्रतिष्ठाननरकमयासीत्, सुभूमोअष्टमश्चक्रवर्ती कौरव्यः कौरव्यगोत्री ब्रह्मदत्तश्चलनीसुतः तेणंतत्थ वेयर्ण वेयंती सादि, 'ते' परशुरामादयस्तत्र-अप्रतिष्ठाने नरके वेदनां वेदयन्ते उज्ज्वला यावद् दुरध्यासामिति प्राग्वत् ।। सम्प्रति नरकेषूष्णवेदनायाः स्वरूपमभिधित्सुराइ–'उसिणवेदणिज्जेसु णं