SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ Ho इव पर्वकमय इव 'चालेमाणा चालेमाणा' शरीरस्य मध्यभागेन संचरन्तः संचरन्तो वेदनामुदीरयन्त्युज्ज्वला मित्यादि प्राग्वत् ॥ सम्प्रति क्षेत्रस्वभावजां वेदनां प्रतिपादयति- 'रयणेत्यादि, रत्नप्रभा पृथिवीनैरचिका भदन्त ! किं शीतां वेदनां वेदयन्ते उष्णां वेदनां वेदयन्ते शीतोष्णां वा ?, भगवानाह - गौतम! न शीतां वेदनां वेदयन्ते किन्तु उष्णां वेदनां वेदयन्ते, ते हि शोतयोनिका योनिस्थानानां केवल हिमानी प्रस्यशीत प्रदेशासफत्वात् योनिस्थानव्यतिरेकेण चान्यत् सर्वमपि भूम्यादि खादिराङ्गारादपि महाप्रतप्तमतस्त्रे उ ष्णवेदना मनुभवन्ति, नापि शीतोष्णां वेदनां वेदयन्ते, शीतोष्णस्वभावतया वेदनाया नरकेषु मूलतोऽप्यसम्भवात् एवं शर्कराप्रभा वालुकाप्रभानैरयिका अपि वक्तव्याः पङ्कप्रभापृथिवीनैरथिकपृच्छायाम् भगवानाह - गौतम ! शीतानपि वेदनां वेदयन्ते नरकावास भेदेनोष्णामपि वेदनां वेदयन्ते नरकाचा सभेदेनैव न तु शीतोष्ण, तत्र ते बहुतरा ये उष्णां वेदनां वेदयन्ते प्रभूततराणां शीतयोनित्वात्, ते स्तोकतरा ये शीतां वेदनां वेदयन्ते, अल्पतराणामुष्णयोनिखात् एवं धूमप्रभायामपि वक्तव्यं, नवरं ते बहुदरा ये शीवदनां वेदयन्ते, बहूनामुष्णयोनित्वात्, ते स्तोकतरा ये उष्णवेदनां वेदयन्ते, अल्पतराणां शीतयोनित्वात् तमः प्रभाष्टथिवीनैरथिकपृच्छायां भगवानाह - गौतम ! शीतां वेदनां वेदयन्ते नोष्णां नापि शीतोष्णां, तत्रत्यानां सर्वेषामुष्णयोनित्वात् योनिस्थानव्यतिरेकेण चान्यस्य सर्वस्यापि नरकभूम्यादेर्महा हिमानीप्रख्यत्यात्, एवं तमस्तमाप्रमापृथिवीनैरथिका अपि वक्तव्या; नवरं परमां शीतवेदनां वेदयन्ते इति वक्तव्यं तमः प्रभा पृथिवीतः तमस्तमप्रमाप्रथिव्यां शीतवेदनाया अतिप्रचलत्वात् ॥ सम्प्रति भवानुभवप्रतिपादनार्थमाह'रचणे' त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! कीदृशं नरकभवं प्रत्यनुभवन्तः प्रत्येकं वेदयमानाः 'विहरन्ति' अवतिष्ठन्ते ?, भगवानाइ - गौतम! रत्नप्रभापृथिवी नैरविका 'नित्यं सर्वकालं क्षेत्रस्वभावजमहानिविडान्धकारदर्शनतो भीताः सर्वत उपजातशङ्कखात्,
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy