________________
रत्नप्रभा पृथिवीनैरयिकाणां भदन्त ! कति लेश्याः प्रज्ञप्ता: ?, भगवानाह - गौतम! कापोतलेश्या प्रज्ञप्ता, एवं शर्कराप्रभानैरयिकाणामपि, नवरं तेषां कापोतलेश्या सष्टितरा वेदितव्या, वालुकाप्रभानैरयिकाणां द्वे लेश्ये, तद्यथा-नीललेश्या च कापोतलेश्या च तत्र ते बहुतरा ये कापोतलेश्याः उपरितनप्रस्तटवर्त्तिनां नारकाणां कापोतलेश्याकत्वात् तेषां चातिभूयस्कत्वात्, ते स्तोकतरा ये नीललेश्याकाः पङ्कप्रभा पृथिवीनैरचिकाणामेका नीललेश्या, सा च तृतीयपृथिवीगत नील लेश्याऽपेक्षयाऽविशुद्ध तरा, धूमप्रभापृथिवीनैरयिकाणां हे लेश्ये, तद्यथा - कृष्णलेश्या च नीललेश्या च तत्र ते बहुतरा ये नीललेश्याकाः, ते स्तोकत्तरा ये कृष्णलेश्याकाः, भावनाऽत्रापि प्राग्वत् तमः प्रमापृथिवानैरचिकाणां कृष्णलेश्या, सा च पञ्चमपृथिवीगत कृष्णलेश्याऽपेक्षयाऽविशुद्धतरा, अधः सप्तमपृथिवीनै| रयिकाणामेका परमकृष्णलेश्या, उक्तं च व्याख्याप्रज्ञप्ती - "काऊ दोसु तझ्याएँ मीसिया नीलिया चउत्थीए । पंचमियाए मीसा कण्हा तत्तो परमकण्हा ।। १ ।। " सम्प्रति सम्यग्दृष्टित्वादिविशेषप्रतिपादनार्थमाह – ' रयणे 'त्यादि, रत्नप्रभा पृथिवीनैरयिका भदन्त ! किं सम्यग्दृष्टयो मिध्यादृष्टयः सम्यग्मिध्यादृष्ट्यो वा ?, भगवानाद - गौतम ! सम्यग्दृष्टयोऽपि मिध्यादृष्टयोऽपि सम्यग्मिथ्यादृष्टयोऽपि एवं पृथिव्यां पृथिव्यां तावद्वाच्यं यावत्तमतमायाम् ॥ सम्प्रति ज्ञान्यज्ञानिचिन्तां कुर्वन्नाह - ' रयणे 'त्यादि, रत्नप्रभा पृथिवीनेरथिका भदन्त ! किं ज्ञानिनोऽज्ञानिनः ?, भगवानाह - गौतम ! ज्ञानिनोऽपि अज्ञानिनोऽपि, सम्यग्दशां ज्ञानित्वान्मिथ्यादृशामज्ञानि खात्, तत्र ये ज्ञानिनस्ते नियमात्रिज्ञादिनः, अपर्याप्तावस्थायामपि तेषामवधिज्ञानसम्भवात् सन्जिप भयेन्द्रियेभ्यस्तेषामुत्पादात्, त्रिशानित्वमेव भावयति, तद्यथा - अभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनः, येऽज्ञानिनस्ते 'अत्थेगइया' इति अस्तीतिनिपातोइत्र बहुवचनगर्भः सन्त्येकका पज्ञानिनः सन्त्येक कारुयज्ञानिनः, तत्र येऽसत्रिपचेन्द्रियेभ्य उत्पद्यन्ते तेषामपर्याप्तावस्थायां विभङ्गा