________________
णुस, उत्तरवे० अड्डाहलाई भणुसगाई, छीपनारा अड्ढाइलाई धणुसयाई, उत्तरवेउब्विया पंचधणुसयाई, ससमाए भवधारणिजा पंचधणुसयाई उत्तरवेउब्विए धणुसहस्सं ॥ ( सू० ८६ )
'इमीसे ण' मित्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यां नैरयिकाः कुत उत्पद्यन्ते ?, किमसशिभ्य उत्पद्यन्ते सरीसृपेभ्य उत्प यन्ते पक्षिभ्य उत्पद्यन्ते चतुष्पदेभ्य उत्पद्यन्ते उरगेभ्य उत्पद्यन्ते स्त्रीभ्य उत्पद्यन्ते मत्स्य मनुष्येभ्य उत्पद्यन्ते १, भगवानाह - गौतम ! असभ्योऽप्युत्पद्यन्ते यावन्मत्स्य मनुष्येभ्यो ऽप्युत्पद्यन्ते, 'सेसासु इमाए गाहाए अणुगंतव्वा' इति, 'शेषासु' शर्कराप्रभादिषु पृथिवीष्वनया गाधया, जातावेकवचनं गाथाद्विकेनेत्यर्थः, उत्पद्यमाना अनुगन्तव्याः, तदेव गाथाद्विकमाह – 'अस्सण्णी खलु पढम' मित्यादि, असञ्ज्ञिनः संमूच्छिमपञ्चेन्द्रियाः खलु प्रथमां नरकपृथिवीं गच्छन्ति, खलुशब्दोऽवधारणे, तथा अवधारणमेवम्--असव्शिनः प्रथमामेव यावद् गच्छन्ति न परत इति नतु त एक प्रथमामिति गर्भजसरीसृपादीनामपि उत्तरपृथिवीषहूगामिनां तत्र गमनात् एवमुत्तरत्राप्यवधारणं भावनीयम् । 'दोच्चं च सरीसिवा' इति द्वितीयामेव शर्कराप्रभाख्यां पृथिवीं यावच्छन्ति सरीसृपाः- गोधानकुलादयो गर्भव्युत्क्रान्ता न परतः, तृतीयामेव गर्भजाः पक्षिणो गृध्रादयः, चतुर्थीमेव सिंहाः, पञ्चमीमेव गर्भजा उरगाः, षष्ठीमेव स्त्रियः स्त्रीरत्नाद्या महाक्रूराध्यवसायिन्यः, सप्तमीं यावद् गर्भजा मत्स्या मनुजा अतिक्रूराव्यवसायिनो महापापकारिणः, आलापकश्च प्रतिपृथिवि एवम् – “ सकरप्पभाष णं भंते! पुढवीए नेरइया किं असण्णीहिंतो उबवजंति जाव मच्छ मणुपर्हितो उबवज्वंति ?, गोयमा ! नो असन्नीहिंतो उववजंति सरीसिवेहिंतो उववजंति जाब मच्छमणुस्सेहिंतो उववर्जति । वालुयप्पभाए णं भंते !