SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ ङ्कारे, 'महर्द्धिकः' महती ऋद्धिविमानपरिवारादिका यस्य स महर्द्धिकः, महती गुतिः शरीराभरणविषया यस्य स महाश्रुतिकः, महदू बलं - शारीरः प्राणो यस्य स महाबलः, महद यशः - ख्यातिर्यस्य स महायशा:, तथा 'महेसक्खे' इति महेश इति महान ईश्वर इ| व्याख्या यस्य स महेशाख्यः, अथवा ईशनमीशो भात्रे घप्रत्यय ऐश्वर्यमित्यर्थः, 'ईशं ऐश्वर्ये' इति वचनात् तत ईशम् ऐश्वर्यमात्मनः ख्याति - अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति ईशाख्यः, महांश्चासावीशाख्यश्च महेशाख्यः कचित् 'महास्रोक्खे' इति पाठः, तत्र महत् लौख्यं यस्य प्रभूतसद्वेदोदयवशात्स महासौख्यः, अन्ये पठन्ति - 'महासक्खे' इति तत्रायं शब्दसंस्कारो - महाश्वाक्षः, इयं चात्र पूर्वाचार्यप्रदर्शिता व्युत्पत्तिः - आशुगमनादश्वो - मनः अक्षाणि - इन्द्रियाणि स्वविषयव्यापकत्वात् अश्वश्वाक्षाणि च अश्वाश्राणि महान्ति अाणि यसासी महत्वारः, शभा 'महाणुभागे' इति अनुभागो - विशिष्टवैक्रियादिकरणविषयाऽचिन्त्या शक्ति: 'भागोऽचिंता सत्ती' इति वचनात् महान् अनुभागो यस्य स महानुभागः, अमूनि महर्द्धिक इत्यादीनि विशेषणानि तत्सामर्थ्यातिश| यप्रतिपादकानि यावदिति चप्पुटिकात्रय करणकालावधिप्रदर्शनपरम् 'इणामेव इणामेवेतिकट्टु' एवमेत्र मुधिकया एवमेव ' मोरकुल्ला "मुहाय मुद्दियत्ति नायकवा' इति वचनाद् अवज्ञयेति भावः, उक्त मूलटीकायाम् “इणामेव इणामेवेति कट्टु एवमेव मुधिकयाऽवज्ञयेति” 'इतिकृत्वे 'ति हस्तदर्शितचप्पुटिकात्रय करण सूचकं केवलकल्पं परिपूर्ण जम्बूद्वीपं त्रिभिरप्सरोनिपातैः, अप्सरोनिपातो नाम चप्पुटिका, तत्र तिसृभिश्चप्पुटिकाभिरिति द्रष्टव्यं चप्पुटिकाश्च कालोपलक्षणं, ततो यावता कालेन तिस्रश्नप्पुटिका: पूर्यन्ते तावकालमध्य इत्यर्थः, त्रिसप्तकृत्वः - एक विंशतिवारान् अनुपरिवर्त्य - सामस्त्येन परिभ्रम्य 'हवं' शीघ्रमागच्छेत् स इत्थम्भूतगमनशक्तियोग्यो देवः तथा देवजनप्रसिद्धया उत्कृष्टया प्रशस्त विहायोगतिनामोदयात्प्रशस्तया शीघ्रसंचरणात्त्वरितया त्वरा संजाताऽस्यामिति
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy