SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ कुणिमवावण्णेत्यादि, मृतः सन् कुथितः - पूतिभावमुपगतो मृतकुथितः स चोहूनावस्थामात्रगतोऽपि भवति, न च स तथा विग न्धस्तत आह- विनष्ट:- उच्छूनावस्थां प्राप्य स्फुटित इति भावः सोऽपि तथा दुरभिगन्धो न भवति तम आह— 'कुणिमवावण्ण'त्ति व्यापनं - विशरारुभूतं कुणिमं -मांसं यस्य स तथा ततो विशेषणसमास:, 'दुरभिगन्धः' इति दुरभि:- सर्वेषामाभिमुख्येन दुष्टो गन्धो यस्यासौ दुरभिगन्धः, अशुचिश्व विलीनो-मनसः कलिमलपरिणामहेतुः 'विजय' इति विगतं प्रनष्टं यदभिमुखतया प्राणिनां गतं गमनं यस्मिन् तथा बीभत्सया - निन्दया दर्शनीयो बीभत्सादर्शनीयः ततो विशेषणसमासः अशुचिविगतबीभत्सादर्शनीयः 'किमिजाला उलसंसत्ते' इति संसक्तः सन् कृमिजालाकुलो जातः कृनिजालाकुललंसक्तः, मरव्यंसकादिलात्समासः संसक्तशब्दस्य च परनिपातः, एतावत्युक्ते गौतम आह- 'भवे एयारूवे सिया ?" इति स्याद् भवेद्भवेयुरेतद्रूपाः - यथोक्तविशेषणविशिष्टा अहिमृतादिरूपा गन्धेनाधिकृता नरकाः, सूत्रे च बहुवचनेऽप्येकवचनं प्राकृतस्वात्, भगवानाह - गौतम ! 'नायमर्थः समर्थो' नायमर्थ उपपन्नो, यतोऽस्यां रत्नप्रभायां पृथिव्यां नरका इतो-यथोक्तविशेषणविशिष्टा हिमृतादेरनिष्टतरा एव तत्र किञ्चिद्रम्यमपि कस्याप्यनिष्टतरं भवति तत आह-अकान्ततरा एव-स्वरूपतोऽप्यकमनीयतरा एव, अभव्या एवेति भावः, तत्राकान्तमपि कस्यापि प्रियं भवति यथा गर्णाशुकरस्याशुचि:, तत आह-अप्रियतरा एव न कस्यापि प्रिया इति भावः अत एवामनोज्ञतरा एव, अमन आपतरा एव गन्धमधिकृत्य प्रज्ञप्ताः, तत्र मनोशं मनोऽनुकूलमात्रं यत्पुनः स्वविषये मनोऽत्यन्तमासक्तं करोति तन्मनआपम्, एकार्थिका वा एते सर्वे शब्दाः शकेन्द्रपुरन्दरादिवत् नानादेशजविनेयजनानुग्रहार्थमुपात्ताः एवं पृथिव्यां पृथिव्यां तावद्वक्तव्यं यावद्धः सप्तम्याम् ॥ स्पर्शमधिकृत्याह - 'इमीसे णमित्यादि, प्रश्नसूत्रं सुगमं, भगवानाह - गौत्तम ! तद्यथा नाम -- 'असिपत्रमिति वा असिः - खङ्गं तस्य पत्रमसिपत्रं क्षुरप्रमिति वा
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy