________________
तद्यथा-प्रथममाहारपर्याप्तिस्ततः शरीरपर्याप्तिस्तत इन्द्रियपर्याप्तिरित्यादि, आहारपर्याप्तिश्च प्रथमसमय एव निष्पत्तिमुपगच्छति, शेषास्तु प्रत्येकमन्तर्मुहून कालेन, अथाहारपर्याप्तिः प्रथमसमय एव निष्पद्यत इति कथमवसीयते ?, उच्यते, ड्रह भगवताऽऽर्यश्यामेन प्रज्ञापनायामाहारपदे द्वितीयोद्देशके सूत्रमिदमपाठि-"आहारपज्जत्तीए अपजत्तए णं भंते! किं आहारए अणाहारए?, गोयमा! नो आहारए अणाहारए" इति, तत आहारपर्याप्त्या अपर्याप्तो विग्रहगतावेवोपपद्यते नोपपातक्षेत्रमागतोऽपि, उपपातक्षेत्रसमागतस्य
समय एवाहारकत्वात् , तत एकसामायिकी आहारपर्याप्रिनिर्वृत्तिः, यदि पुनरुपपातक्षेत्रसमागतोऽप्याहारपर्याप्त्या अपर्याप्त स्थातत एवं व्याकरणसूत्रं पठेत् -"सिय आहारए सिय अणाहारए" यथा शरीरादिपर्याप्तिषु "सिय आहारए सिय अणाहारए" इति, सर्वासामपि च पर्याप्तीनां पर्याप्तिपरिसमाप्तिका मोटर्नुहहया, यिो नितान्तेषां ने पर्याप्ताः, अभ्रादिभ्य' इति मत्वर्थीयोऽप्रत्ययः, पर्याप्ता एव पर्याप्तकाः, ये पुनः खयोग्यपर्याप्तिपरिसमाप्तिविकलाम्तेऽपर्याप्ताः अपर्याप्ता एवापर्यातकाः, ते द्विधा-लब्ध्या करणैश्च, तत्र येऽपर्याप्तका एव म्रियन्ते ते लब्ध्याऽपर्याप्रकाः, ये पुनः करणानि-शरीरेन्द्रियादीनि न तावनिवर्सयन्ति अथवावश्यं निर्वर्तयिष्यन्ति ते करणापर्याप्ताः संप्राप्ताः ।। सम्प्रति पिनेयजमानुपहाय शेषवक्तव्यतासङ्ग्रहार्थमिदं ससहणिगाथाद्वयमाह-सरीरोगाणसंघयण संठाणकसाय तह य हुँति सन्नाओ। लेसिदियसमुग्घाए सनी वेए य पजत्ती ॥१॥ दिट्टी दसणनाणे जोगुवओगे |तहा किमाहारे । उववायठिई समुग्घाय चवणगइरागई चेव ॥ २॥ अस्य व्याख्या-प्रथमतः सूक्ष्मपृथिवीकायिकानां शरीराणि वक्तव्यानि, तदनन्तरमवगाहना, ततः संहननं, तदनन्तरं संस्थान, ततः कषायाः, ततः कति भवन्ति सञ्ज्ञा:? इति वक्तव्यं, ततो लेश्याः, तदनन्तरमिन्द्रियाणि, ततः समुद्घाताः, ततः किं सज्ज्ञिनोऽसम्झिनो वा? इति वक्तव्यं, तदनन्तरं वेदो वक्तव्यः, ततः पर्याप्रयो
XXX