________________
रिख, सूक्ष्माश्च ते पृथिवीकायिकाश्च सूक्ष्मपृथिवीकायिकाः, आदराश्च ते पृथिवीकायिकाश्च बादरपृथिवीकायिकाः, चशब्दौ स्वगतानेकभेदसूचकौ, सूक्ष्माः सकललोकवर्तिनो बादराः प्रतिनियरोकशधारिणः ॥ सत्र सूवियोकायिकारिसदनार्थमाह
से किं तं मुहुमपुढविक्काइया ?, २ दुविहा पं०, तं०-पजत्तगा य अपजत्तगा य ॥ (सू० १२) अथ के ते सूक्ष्मपृथिवीकायिका: ?, सूरिराह-सूक्ष्मपृथिवीकायिका द्विविधाः प्रज्ञप्ताः, तद्यथा-पर्याप्तकाश्चापर्याप्तकाच, तत्र पर्याप्ति माहारादिपुद्गलग्रह्णपरिणमनहेतुरामनः शक्तिविशेषः, स च पुद्गलोपचयादुपजायते, किमुक्तं भवति ।-उत्पत्तिदेशमागतेन प्रथमं ये गृहीताः पुदलास्तेषां तथाऽन्येषामपि प्रतिसमयं गृह्यमाणानां तत्संपर्कतस्तद्रूपतया जातानां यः शक्तिविशेष आहारादिपुद्गलखलरसरूपतापादनहेतुर्यथोदरान्तर्गतानां पुद्गलविशेषाणामाहारपुद्गलविशेषाणामाहारपुद्गलखलरसरूपतापरिणमनहेतुः सा पर्याप्तिः, सा च षोढा, तद्यथा-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ प्राणापानपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिश्च ६, तत्र यया बाह्यमाहारमादाय खलरसरूपतया परिणमयति साऽऽहारपर्याप्तिः १, यया रसीभूतमाहारं रसासृग्मांसमेदोऽस्थिमज्जाशुकलक्षणसप्तधातुरूपतया परिणमयति सा शरीरपर्याप्तिः २, यया धातुरूपतया परिणमितमाहारमिन्द्रियरूपतया परिणमयति सा इन्द्रियपर्याप्तिः ३, यया पुनरुच्छासप्रायोग्यवर्गणापुद्गलानादायोच्छासरूपतया परिणमथ्यालम्ब्य च मुञ्चति सा उच्छासपर्याप्तिः ४, यया तु भाषामायोग्यान् पुद्गलानादाय भाषात्वेन परिणमय्यालम्य च मुवति सा भाषापर्याप्तिः ५, यया पुनर्मन:प्रायोग्यवर्गणालिकमादाय मन|स्त्वेन परिणमय्यालम्च्य च मुश्चति सा मनःपर्याप्तिः ६, एताश्च यथाक्रममेकेन्द्रियाणां सब्जिवर्जानां द्वीन्द्रियादीनां संज्ञिनां च चतुपञ्चषट्सख्या भवन्ति, उत्पत्तिप्रथमसमये एव च एता यथायथं सर्वा अपि युगपनिष्पादयितुमारभ्यन्ते क्रमेण च निष्ठामुपयान्ति,