________________
4
.
.
%
L
AE
द्वेषमोहादिदोषाणामात्यन्तिकप्रक्षयात् , स चात्यन्तिकः प्रक्ष्यो दोषाणामईत एव, अत: प्रारभ्यतेऽईवचनानुयोगः, तत्राचारादिशात्रामणामनुयोगः पूर्वसूरिभिर्व्यासादिप्रकारैरनेकधा कृतस्ततो न तदन्वाख्याने समस्ति तथाविध प्रयाससाफल्यम्, अतो यदस्ति तृतीयाङ्गस्य । स्थाननाम्नो रागविषपरममत्ररूपं द्वेषानला विनरोपमं लिनि दिलभुतं महाशिमशेलुमहाप्रयत्नगम्यं निःश्रेयसावास्यवन्ध्यशक्तिकं जीवाजीवाभिगमनामकमुपानं पूर्वटीकाकृताऽतिगम्भीरमल्पाक्षरैव्याख्यातम्, अत एव मन्दमेधसमुपकारायाप्रभविष्णु,तस्य तेषामनुग्रहाय सविस्तरमन्वाख्यानमातन्यते । तत्र जीवाजीनाभिगमाध्ययनप्रारम्भप्रयासोऽयुक्तः, प्रपोजनादिरहितलात, कण्टकशाखामर्द|नादिवत् , इत्याशकाऽपनोदाय प्रयोजनादिकमादावुपन्यसनीयम्, उक्तं च प्रेक्षावता प्रवृत्त्यथै, फलादित्रितयं स्फुटम् । मङ्गलं
चैव शाखादी, वाच्यमिष्टार्थसिद्धये ॥१॥” इति, तत्र प्रयोजनं द्विधा-परमपरं च, पुनरेकै द्विविधं-कर्तृगतं श्रोतृगतं च, तत्र द्रव्यास्तिकनयमतपर्यालोचनायामागमस्य नित्यत्वात्करभाव एव, तथा चोक्तम्-"नैषा द्वादशाही कदाचिनासीत् न कदाचिन्न भवति न कदाचिन्न भविष्यति, ध्रुवा नित्या शाश्वती"त्यादि, पर्यायास्तिकनयमतपर्वालोचनायां चानित्यत्वावश्यंभावी तत्सद्भावः, तत्त्वपर्यालोघनायां तु सूत्रार्थोभयरूपलादागमस्यार्थापेक्षया नित्यखात् सूत्रापेक्षया चानित्यत्वात्कथञ्चित्कर्तृसिद्धिः, तत्र सूत्रकर्तुः परमपवर्गप्राप्तिः अपरं सस्वानुग्रहः, तदर्थप्रतिपादकस्थाहतः किं प्रयोजनमिति चेद् , उच्यते, न किञ्चित् , कृतकृयत्नाद्भगवतः, प्रयोजनमन्तरेणार्थप्रतिपादनप्रयासो निरर्थक इति चेत्, न, तस्य तीर्थकरनामकर्मविपाकोदयप्रभवत्वात्, उक्तं च-"तं च कहं वेइज्जइ?, अगिलाए धम्मदेसणाए उ" इति, ओतणामनन्तरं प्रयोजनं विवक्षिताध्ययनार्थपरिज्ञानं, परं निःश्रेयसपद, विवक्षिताध्ययनसम्यगावगमत:
१ तच कथं वैद्यते ! अग्लान्या धर्मदेशनयैव (नादिभिः)
%ACRACK