________________
haचिरं होइ ?, गोयमा ! न कयाइण आसि ण कयाह णत्थि ण कयाह णं भविस्सति ॥
fi च भवय भविस्सति य धुवा णियमा सासया अक्खया अब्यया अवद्विता णिचा एवं जाव अधेसत्तमा । ( सू० ७८ )
'इमा णं भंते!' इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कि शाश्वती अशाश्वती १, भगवानाह - गौतम ! स्यात् कथञ्चित्कस्यापि नयस्याभिप्रायेणेत्यर्थः शाश्वती, स्यात् - कथच्चिदशावती ॥ एतदेव सविशेषं जिज्ञासुः पृच्छति' से केणद्वेणमित्यादि, सेशब्दोऽशब्दार्थः स च प्रने, क्रेन 'अर्थेन' कारणेन महन्त ! एवमुच्यते यथा स्यात् शाश्वती स्यादशाश्वतीति ?, भगवानाह - गौतम ! 'दव्त्रहयाए' इत्यादि, द्रव्यार्थतया शाश्वतीति तत्र द्रव्यं सर्वत्रापि सामान्यमुच्यते, द्रवति-गच्छति तान् तान् पर्यायान् विशेषानिति वा द्रव्यमितिव्युत्पत्तेर्द्रव्यमेवार्थ:- तात्त्विकः पदार्थों यस्य न तु पर्यायाः स द्रव्यार्थ :- द्रव्यमात्रास्तित्वप्रतिपादको नयविशेषस्तद्भावो [ द्रव्यार्थता तया द्रव्यमात्रास्तित्वप्रतिपादक नयाभिप्रायेणेतियावत् शाश्वती, द्रव्यार्थिक नयमतपर्यालोचनायामेवंविधस्य रत्नप्रभायाः पृथिव्या आकारस्य सदा भावात्, 'वर्णपर्यायैः' कृष्णादिभिः 'गन्धपर्यायैः' सुरभ्यादिभिः 'रसपर्यायैः' तिक्तादिभिः 'स्पर्शपर्यायैः' क ठिनत्वादिभि: 'अशाश्वती' अनित्या, तेषां वर्णादीनां प्रतिक्षणं कियत्कालानन्तरं वाऽन्यथाभवनात् अताववस्थ्यस्य चानित्यत्वात्, न चैवमपि भिन्नाधिकरणे नित्यत्वानित्यत्वे, द्रव्यपर्याययोर्भेदाभेदोपगमात् अन्यधो भयोरप्यस स्वापत्तेः तथाहि शक्यते वकुं परपरिकल्पितं द्रव्यमसत् पर्यायव्यतिरिक्तत्वात्, बालत्वादिपर्यायशून्यवन्ध्या सुतवत्, तथा परपरिकल्पिताः पर्याया असन्तः द्रव्यव्यतिरिक्तत्वात् वन्ध्यासुतगत बालत्वादिपर्यायवत् उक्तभ्व — " द्रव्यं पर्यायवियुद्धं, पर्याया द्रव्यवर्जिताः । क कदा केन किंरूपा ?,