SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ | दृष्टा मानेन केन वा ? ॥१॥" इति कृतं प्रसङ्गेन, विस्तरार्थिना च धर्मसङ्ग्रहणिदीका निरूपणीया । 'से तेणडेण'मित्यायुपसंहारमाह, सेशब्दोऽथशब्दार्थः स चात्र वाक्योपन्यासे अथ 'एतेन' अनन्तरोवितेन कारणेन गौतम! एवमुच्यते-स्यात् शाश्वती स्यादशाश्वती, एवं प्रतिपृथिवि तावद्वक्तव्यं यावदधःसप्तमी पृथिवी, इह यद् यावत्सम्भवास्पदं तच्चत्तावन्तं काळं शश्वद्भवति तदा तदपिर शाश्वतमुच्यते यथा तान्तरेषु 'आकप्पढाई पुढवी सासया' इत्यादि, ततः संशय:-किमेषा रत्नप्रभा पृथवी सकलकालावस्थायितया । शाश्वती उतान्यथा यथा तप्रान्तरीयैरुच्यत इति ?, ततस्तदपनोदार्थ पृच्छति-'इमा णं भंते' इत्यादि, इयं भदन्त ! रमप्रभा - थिवी कालत: 'कियच्चिरं कियन्तं कालं यावद्भवति?, भगवानाह-गौतम! न कदाचिन्नासीत् , सदैवासीदिति भावः, अनादिलात् , तथा न कदाचिन्न भवति, सर्वदेव वर्तमानकाल चिन्तायां भवतीति भावः, अनापि स एल हेतुः, सदा भावादिति, तथा न कदाचिन्न का भविष्यति, भविष्यचिन्तायां सर्वदैव भविष्यतीति भावः, अपर्यवसितत्वात् । तदेवं कालत्रयचिन्तायां नास्तित्वप्रतिषेधं विधाय सम्प्र त्यस्तित्वं प्रतिपादयति-भुति चेत्यादि, अभूस् भवति भविष्यति च, एवं त्रिकालभावित्वेन 'ध्रुवा' ध्रुवस्वादेव 'नियता' नियतावस्थाना, धर्मास्तिकायादिवत्, नियतत्वादेव च शाश्वती, शश्वद्भावः प्रलयाभावात् , शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाहप्रवृत्ताबपि पनपौण्डरीकइद इवान्यतरपुद्गलविचटनेऽप्यन्यतरपुद्गलोपचयभावात् , अश्या अश्यत्वादेव च अव्यया, मानुषोत्तराद्वहिः समुद्रवत् , अव्ययलादेव 'अपस्थिता' स्वप्रमाणावस्थिता, सूर्यमण्डलादिवत् , एवं सदाऽवस्थानेन चिन्त्यमाना नित्या जीवस्वरूपवत् , यदि वा ध्रुवावयः शब्दा इन्द्रशमादिवत्पर्यायशब्दा नानादेशजविनेयानुग्रहार्थमुपन्यता इत्यदोषः, एवमेकैका पृथिवी क्रमेण तावद्वक्तव्या - यावधःसप्तमी ॥ सम्प्रति प्रतिपृथिवीपु(वि)विभागतोऽन्तरं विचिन्तयिपुरिदमाह
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy