________________
जाइयं रत्नप्रभा पृथिवी प्रायोवृत्तिमाश्रित्य सर्वजीवैः सांव्यवहारिकैः कालक्रमेण परित्यक्तपूर्वा, न तु युगपत्परित्यक्ता, सर्वजीवैः एकका
लपरित्यागस्यासम्भवात् तथानिमित्ताभावात् , एवं तावद्वक्तव्यं यावधःसप्तमी पृथ्वी ।। 'इमीसे ण' मित्यादि, अस्यां भदन्त ! रनप्रभायां पृथिव्यां सर्वे पुद्गला लोकोदरविवरवर्तिनः कालक्रमेण 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, तथा सर्वे पुद्गलाः 'प्रविष्टा' एककालं तद्भावेन परिणताः १, भगवानाह-गौतम ! अस्यां रत्नप्रभायां पृथिव्यां सर्वे पुद्गला: लोकवर्तिनः 'प्रविष्टपूर्वाः' तद्भावेन परिणतपूर्वाः, संसारस्यानादित्वात् , न पुनरेककालं सर्वपुद्गला: 'प्रविष्टाः' तद्भावेन परिणताः, सर्वपुद्गलानां तद्भावेन परिणती रमप्रभा-15 व्यतिरेकेणान्यत्र सर्वत्रापि पुद्गलाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यात् । एवं सर्वासु पृथिवीपु क्रमेण वक्तव्यं यावदधः || सप्तम्यां पृथिव्यामिति ॥'इमाणं भंते इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी सर्वपुद्गलैः कालक्रमेण विजपव्वा' इति परित्यक्तपूर्वा तथैव सर्वैः पुद्गलैरेककालं परित्यक्ता ?, भगवानाह-गौतम! इयं रत्नप्रभा पृथिवी सर्वपुलैः कालक्रमेण परित्यक्तपूर्वा, संसारस्थानावित्वात् , न पुन: सर्वपुद्गलैरेककालं परित्यक्ता, सर्वपुद्गलैरेककालपरित्यागे तस्याः सर्वथा स्वरूपाभावप्रसक्तेः, न चैतदस्ति, तथाजगत्स्वाभाव्यतः शाश्वतत्वात्, एतच्चानन्तरमेव वक्ष्यति । एवमेकैका पृथिवी क्रमेण तावद्वाच्या यावद्धःसप्तमी पृथिवी ।।
इमा णं भंते ! रयणप्पभा पुढवी किं सासया असासया ?, गोयमा! सिय सासता सिय असासया ॥ से केणद्वेणं भंते! एवं बुचद-सिय सासया सिय असासया?, गोयमा! दवट्टयाए सासता, वण्णपजवेहिं गंधपत्रवेहिं रसपज्जवेहिं फासपज्जवहिं असासता, से तेणद्वेणं गोयमा! एवं खुचति-तं चेव जाव सिय असासता,एवं जाव अधेसत्तमा॥इमा णं भंते। रयणप्पभापु० कालतो
GEET