SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ बाहुल्यपरिमाणमपि चनोदध्यादीनां प्रतिपृथिवि प्रागुक्तमुपयुज्य वक्तव्यम् ॥ सम्प्रति घनोदध्यादिसंस्थानप्रतिपादनार्थमाह--' इमीसे णं भंते!' इत्यादि, अस्था भदन्त ! रत्नप्रभायाः पृथिव्या घनोदधिवलयः किमित्र संस्थितः किंसंस्थितः प्रज्ञप्तः १, भगवानाह - गौतम ! 'वृत्त:' चक्रवालतया परिवर्चुखो वलयस्य - मध्यशुपिरस्य वृत्तविशेषस्याकारः -आकृतिर्वलयाकारः स इव संस्थानं वलयाकारसंस्थानं तेन संस्थितो वलयाकार संस्थानसंस्थितः ॥ सदमेवमन्यसे कत्राकारसंस्थानसंस्थित इति ?, तत आह— 'जेण' मित्यादि, येन कारणेनेमां रत्नप्रभां पृथिवीं 'सर्वतः सर्वासु दिक्षु विविक्षु च 'संपरिक्षिप्य' सामस्त्येन वेष्टयित्वा 'तिष्ठति' वर्त्तते तेन कारणेन वलयाकार संस्थानसंस्थितः प्रज्ञप्तः । एवं घनवातवलयसूत्रं तनुवातवलयसूत्रं च परिभावनीयं, नवरं घनवातवल्यो धनोद्धिवलयं संपरिक्षिप्येति वक्तव्यः, तनुवातवढ्यो घनवातवलयं संपरिक्षिप्येति । एवं शेपास्वपि पृथिवीषु प्रत्येकं त्रीणि त्रीणि सूत्राणि भावनीयानि ॥ 'इमा णं भंते!" इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी कियद् 'आयामविष्कम्भेन' समाहारो द्वन्द्वः, आयामविष्कम्भाभ्यां | अज्ञप्ता ?, भगवानाह - अयानि योजन सहस्राणि आयामविष्कम्भेन, किमुक्तं भवति ? - असङ्ख्येयानि योजनसहस्राणि आयामेन, असङ्ख्येयानि योजन सहस्राणि विष्कम्भेन च, आयामविष्कम्भयोस्तु परस्परमल्पबहुत्वचिन्तने तुल्यत्वं तथाऽसङ्ख्येयानि योजनसहस्राणि 'परिक्षेपेण' परिधिना प्रज्ञप्ता, एत्रमेकैका पृथिवी तावद्वक्तव्या यावदधः सप्तमी पृथिवी । 'इमा णं भंते " इत्यादि, इयं भदन्त ! रत्नप्रभा पृथिवी अन्ते मध्ये च सर्वत्र समा 'बाइस्येन' पिण्डभावेन प्रज्ञप्ता भगवानाह - गौतमेत्यादि सुगमम् । एवं क्रमेणैकैका पृथिवी तावद्वक्तव्या यावत्सप्तमी ॥ इसीसे णं भंते! रयणप्प० पु० सव्वजीवा उबवण्णपुव्वा ? सव्वजीवा उबवण्णा ?, गोयमा ।
SR No.090435
Book TitleAgam 14 Upang 03 Jivabhigam Sutra Part 03 Stahanakvasi
Original Sutra AuthorN/A
AuthorMadhukarmuni, Rajendramuni, Shobhachad Bharilla
PublisherZZZ Unknown
Publication Year
Total Pages935
LanguagePrakrit, Hindi
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_related_other_literature
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy