________________
4G
घणघायबलए तणुवायवलए । इमीसेणं भंते! रयणप्प० पु० दाहिणिल्ले चरिमंते कतिविधे पण्णसे, गोयमा! तिविधे पण्णते, तंजहा,-एवं जाव उत्तरिल्ले, एवं सन्यासि जाव अधेसत्तमाए उत्त
रिल्ले ॥ (मू०७२) 'इमी से णं भंते' इत्यादि, अस्या भदन्त ! रत्नप्रभायाः पृथिव्याः 'पुरथिमिल्लाओ' इति पूर्वदिग्भाविनश्चरमान्तात् 'केवइयाएर इति कियत्याऽबाधया-अपान्तरालरूपया लोकान्तोऽलोकावधिपरिच्छिन्नः प्राप्तः , भगवानाह-द्वादश योजनानि, द्वादशयोजनप्रमापयेत्यर्थः, अबाधया लोकान्तः प्रज्ञप्तः, किमुक्तं भवति ?-रसप्रभायाः पृथिव्याः पूर्वस्यां दिशि चरमपर्यन्तात्परतोऽलोकादर्वाग् अपान्तरालं द्वादश योजनानि, एवं दक्षिणस्थानपरस्थामुत्तरस्या चापान्तरालं वक्तव्य, दिग्ग्रहणं चोपलक्षणं तेन सर्वासु विदिक्ष्वपि यथोक्तमपान्तरालमवसातव्यं, शेषाणां तु पृथिवीनां सर्वासु दिक्षु विदिक्ष च चरमपर्यन्तादलोकः कमेणाधोऽधनिभागोनेन योजनेनाधिकै. द्वादशभियोजनैरवगन्तव्यः, तद्यथा-दशर्कराप्रभायाः पृथिव्याः सर्वासु दिक्ष विदिक्षु च चरमपर्यन्तादलोकादागपान्तरालं त्रिभागोनानि प्रयोदश योजनानि, बालुकामभायाः सत्रिभागानि त्रयोदश योजनानि, पङ्कप्रभायाः परिपूर्णानि चतुर्दश योजनानि, धूमप्रभायात्रिभागोनानि पञ्चदश योजनानि, तमःप्रभायाः सत्रिभागानि पञ्चदश योजनानि, अधःसप्तमपृथिव्याः परिपूर्णानि षोडश योजनानि, सूत्राक्षराणि पूर्ववद्योजनीयानि || अथामूनि रत्नप्रभादीनां द्वादशयोजनप्रमाणादीनि अपान्तरालानि किमाकाशरूपाणि उत घनोदध्यादिव्याप्तानि?, उच्यते, घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् धनोध्यादिः । इति प्रतिपादनार्थमाह-मीसे भंते' इत्यादि, अस्या भदन्त! रजप्रभायाः पृथिव्याः पूर्व दिग्भावी 'चरमान्तः' अपान्तराललक्षण: 'कतिविधः कतिप्रकार: