________________
हस्सबाहल्लस्स खेत्तच्छेएण द्विजमाणीए अस्थि दव्वाई वण्णतो जाव घटाए चिद्वंति ?, हंता अत्थि, एवं घणोदहिस्स वीसजोयणसहस्सबाहलस्स घणवातस्स असंखेज्जजोयणसहस्सबाहल्लस्स, एवं जाव ओबासंतरस्स, जहा सकरप्पभाए एवं जाव असत्तमाए ॥ (०७३ )
'इमीसे णं भंते' इत्यादि, अस्यां भदन्त ! रत्नप्रभायां पृथिव्यामशीत्युत्तरयोजनशतसहस्रबाहल्यायां क्षेत्रच्छेदेन-बुद्ध्या प्रतरकाण्डविभागेन छिद्यमानायाम्, अस्तीति निपातोऽत्र बहुलवचनार्थगर्भः, सन्ति द्रव्याणि वर्णत: कालानि नीलानि छोहितानि हारिद्राणि शुद्धानि, गन्धतः सुरभिगन्धीनि दुरभिगन्धीनि च रसतस्तिक्तरसानि कटुकानि कषायाणि अम्लानि मधुराणि स्पर्शतः कर्कशानि मृदूनि गुरुकाणि लघूनि शीतानि उष्णानि स्निग्धानि रूक्षाणि, संस्थानतः परिमण्डलानि वृत्तानि त्र्यस्त्राणि चतुरस्राणि आयदानि कथम्भूतान्येतानि सर्वाण्यपि ? इत्यत आह- 'अन्नमन्नपुडाई' इत्यादि, अन्योऽन्यं - परस्परं स्पृष्टानि - स्पर्शमात्रोपेतानि, तथाऽन्योऽन्यं - परस्परमवगाढानि यत्रैकं द्रव्यमवगाढं तत्रान्यदपि देशतः कचित्सर्वतोऽवगाढमित्यर्थः, तथाऽन्योऽन्यं - परस्परं स्नेहेन प्रतिबद्धानि येनैकस्मिन् नास्यमाने गृह्यमाणे वाऽपरमपि चलनादिधर्मोपेतं भवति, एवम् 'अन्नोन्नघडत्ताए चिर्हति' इति, अन्योऽन्यं - परस्परं घटते - संबधन्तीति अन्योऽन्यघटास्तद्भावो ऽन्योऽन्यघटता तथा परस्परसंबद्धतया तिष्ठन्ति भगवानाह - 'हंता अस्थि' ' इन्त !' इति प्रत्यवधारणे सन्त्येवेत्यर्थः । एवमस्यामेव रत्नप्रभायां पृथिव्यां खरकाण्डस्य पोढशयोजनसहस्त्रप्रमाणबाहस्यस्त्र, तदनन्तरं रत्नकाण्डस्य योजन सहस्रबाहल्यस्य, ततो वज्रकाण्डस्य यावद्विष्टकाण्डस्य, तदनन्तरमस्यामेव रत्नप्रभायां पृथिव्यां पङ्कबहुलकाण्डस्य चतुरशीतियोजनसहस्रबाहल्यस्य, तदनन्तरमवूनडुलकाण्डस्याशी तियोजनसहस्रत्राद्दत्यस्य वदनन्तरमस्या एवं रमप्रभाया ध