________________
नैरयिका: ?, सूरिराह - नैरयिकाः सप्तविधाः प्रज्ञप्तः, तद्यथा - प्रथमायां पृथिव्यां नैरयिकाः प्रथमपृथिवीनैरयिका इत्यर्थः, एवं सर्वत्र भावनीयम् ॥ सम्प्रति प्रतिपृथिवि नामगोत्रं चक्कयं तत्र नामगोत्रयोरयं विशेष:- अनादिकाल सिद्धमन्वर्थरहितं नाम सान्वर्थ तु नाम गोत्रमिति, तत्र नामगोत्रप्रतिपादनार्थमाह - 'इमा णं ( पढमा णं) भंते !" इत्यादि, इयं भदन्त ! रत्नप्रभापृथिवी 'किंनामा' किमनादिकाल प्रसिद्धान्वर्थरहितनामा ? 'किंगोत्रा ?' किमन्त्रर्थयुक्तनामा ?, भगवानाह - गौतम ! नाना चम्र्मेति प्रज्ञप्ता गोत्रेण रन - प्रभा, तथा चान्वर्थमुपदर्शयन्ति पूर्वसूरयः - रत्नानां प्रभा - बाहुल्यं यत्र सा रत्नप्रभा रनबहुलेति भावः एवं शेषसूत्राण्यपि प्रतिष्ठथिवि प्रननिर्वचनरूपाणि भावनीयानि, नवरं शर्कराप्रभादीनामि यमन्वर्थभावना - शर्कराणां प्रभा - बाहुल्यं यत्र सा शर्कराप्रभा, एवं वालुका प्रभा पद्मप्रभा इत्यपि भावनीयं तथा दूसेव प्रथा राखाः प्रातः प्रभा - बाहुल्यं यत्र सा तमः प्रभा | तमस्तमस्य - प्रकृष्टतमसः प्रभा - बाहुल्यं यत्र सा तमस्तमप्रभा अत्र केषुचित्पुस्तकेषु सङ्ग्रह गिगाथे— “घम्मा वंसर सेला अंजण रिट्ठा मघा य माधवती । सत्तण्डं पुढवीणं एए नामा उ नायव्वा || १ || रयणा सकर बालुय पंका घूमा तमा [य] तमतमाय । सत्त २ ॥ " अधुना प्रतिप्रथिवि बाहुल्यमभिधित्सुराह - 'इमा णं भंते ।" इत्यादि, इयं भदन्त ! रत्रप्रभा अत्र गोत्रेण प्रश्नो नाम्नो गोत्रं प्रधानतरं प्रधानेन च प्रश्नायुपपन्नमिति न्यायप्रदर्शनार्थः उक्तभ्य भगवानाह – 'अशीत्युत्तरम्' अशीतियोजनसहस्राभ्यधिकं योजनशतसहस्रं बाहुल्येन प्रप्ता । अत्र सङ्ग्रहणिगाथा - "आसीयं बत्तीसं अट्ठावीसं च होइ वीसं च । अट्ठारस सोलसगं अट्ठो
पुढवीणं एए गोत्ता मुणेयव्वा ॥ पृथिवी कियबाहुल्येन प्रशप्ता ?, - "न हीना वाक् सदा सता" मिति, एवं सर्वाण्यपि सूत्राणि भावनीयानि चरमेव हिडिमिया ॥ १॥"