________________
घरतिर्यग्योनिकपुरुषाः सङ्ख्येयगुणाः तेभ्यस्तत्त्रियः सङ्ख्येयगुणास्त्रिगुणत्वात्, ताभ्यो जलचर तिर्यग्योनिकपुरुषाः सङ्ख्यगुणाः, तेभ्यो जलम्बरतिर्यग्योनिक स्त्रिय: सोयगुणास्त्रिगुणत्वात् ताभ्यः खचरपश्चेन्द्रिय तिर्यग्योनिकनपुंसका असंख्येयगुणाः, तेभ्यः स्थ लचरजलचर तिर्यग्योनिकनपुंसका यथाक्रमं सयगुणाः, ततञ्चतुरिन्द्रियत्रीन्द्रियद्वीन्द्रिया यथोत्तरं विशेषाधिकाः, ततस्तेजः कायिकैकेन्द्रियतिर्यग्योनिकन्नपुंसका असह्येयगुणाः, ततः पृथिव्यम्बुबायुकायिकै केन्द्रियतिर्यग्योनिकनपुंसका यथोत्तरं विशेषाधिकाः, ततो वनस्पतिकायिकै केन्द्रिय तिर्यग्योनिकनपुंसका अनन्तगुणाः ॥ सम्प्रति कर्म्मभूमिजादिमनुष्यरूयादिविभागतः षष्ठमल्पबहुत्वमाह--'ए| यासि णं भंते ।" इत्यादि, सर्वस्तोका अन्तरद्वीपक्रमनुष्य स्त्रियोऽन्तरद्वीपकमनुष्यपुरुषाश्य, एते च द्वयेऽपि परस्परं तुख्याः, तत्रत्यस्त्रीपुंसानां युगलधर्मोपेतत्वात्, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमक मनुष्य स्त्रियो मनुष्यपुरुषाश्च सङ्घयेयगुणाः, युक्तिरत्र प्रागेवोक्ता, स्वस्थाने तु परस्परं तुल्याः, एवं हरिवर्षरम्यकपुरुषस्त्रियों हैमवतहैरण्यवत मनुष्य पुरुषस्त्रियश्च यथोत्तरं सत्यगुणाः स्वस्थाने तु परस्परं तुल्याः, ततो भरतैरावतकर्मभूमकमनुष्या द्वयेऽपि सोयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो भरतैरावतकर्मभूमकमनुष्यस्त्रियो द्वय्योऽपि सङ्ख्येयगुणाः, सप्तविंशतिगुणत्वात् स्वस्थाने तु परस्परं तुल्याः, ताभ्यः पूर्वविदेहापरविदेह कर्मभूमकमनुष्य पुरुषा द्वयेऽपि सोयगुणाः, स्वस्थाने परस्परं तुल्याः, तेभ्यः पूर्वविदेहापरविदेह कर्म्म भूमक मनुष्य स्त्रियो द्वय्योऽपि सयेयगुणाः, सप्तविंशतिगुणत्वात्, स्वस्थाने तु परस्परं तुल्याः, तेभ्योऽन्तरद्वीपक मनुष्यनपुंसका असङ्ख्येयगुणाः श्रेण्यसय भागगताकाशप्रदेशराशिम[माणत्वात्, तेभ्यो देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसका द्वयेऽपि सङ्ख्येयगुणाः, स्वस्थाने तु परस्परं तुल्याः, ततो हरिवर्षरम्यक| वर्षाकम्मै भूमकमनुष्यनपुंसका द्वयेऽपि सयेयगुणाः, स्वस्थाने तु परस्परं तुल्याः, तेभ्यो हैमवत हैरण्यवता कर्म भूमकमनुष्यनपुंसका