________________
8 जन्म प्रतीत्य जघन्येनान्तर्मुहूर्तमुत्कर्षेणाप्यन्तर्मुहूर्तप.. कर्मभूमौ हि मनुष्या नपुंसकाः समृद्धिमा एव भवन्ति, न गर्भव्युत्क्रान्तिकाः, युगलधर्मिणां नपुंसकत्वाभावात् , संमूछिमाश्च जघन्यत उत्कर्षतो वाऽन्तर्मुहूर्तायुषः, केवलं जघन्यादुत्कृष्टमन्तर्मुहूर्त वृहत्तरमवसेयं, संहरणं प्रतीत्य जघन्य तोऽन्तर्मुहूर्तमुत्कर्षतो देशोना पूर्वकोटी, संहरणादूर्ध्वमामरणान्तमवस्थानसम्भवात् , उत्कर्षतो देशोनता, |च पूर्वकोट्या गर्भान्निर्गतस्य संहरणसम्भवात् , एवं विशेषचिन्तायां हैमवतहरण्यवताकर्मभूमकमनुष्यनपुंसकस्म हरिवर्षरम्यकव-18
कर्मभूमकमनुष्यनपुंसकस्य देवकुरूत्तरकुर्वकर्मभूमकमनुष्यनपुंसकस्य अन्तरद्वीपकमनुष्यनपुंसकस्य च जन्म संहरणं च प्रतीत्यैवमेव वक्तव्यम् ॥ सम्प्रति काय स्थितिमाह--'णपुंसगे णं भंते !' इत्यादि, नपुंसको भदन्त ! नपुंसक इत्यादि, सामान्यतस्तद्वेदा-12 परित्यागेन कालतः कियचिरं भवति ?, भगवानाह-गौतम ! जघन्यत एक समयमुत्कर्पत्तो बनस्पतिकालं, तत्रैकसमयता उपशमश्रे-18 |णिसमाप्तौ सत्यामवेदकले सति उपशमश्रेणीतः प्रतिपततो नपुंसकवेदोदयसमयानन्तरं कस्यचिन्मरणात् , तथा मृतस्य चावश्यं देवोत्पादे वेदोदयभावात् , वनस्पतिकाल:-आवलिकासययभागगतसमयराशिप्रमाणासयेयपुद्गलपरावर्त्तप्रमाणः । नैरयिकनपुंसककायस्थितिचिन्तायां यदेव सामान्यतो विशेषतच स्थितिमानं जघन्यत उत्कर्षतश्वोक्तं तदेवावसातव्यं, भवस्थितिव्यतिरेकेण तत्रान्यस्याः कायस्थितेरसम्भवात् । सामान्यतस्तिर्यग्योनिकनपुंसककाचस्थितिचिन्ताशं जघन्यतोऽन्तर्मुहूर्त, तदनन्तरं मृत्वा गत्यन्तरे वेदान्तरे वा संक्रमात् , उत्कर्षतो वनस्पतिकाल:, विशेषचिन्तायामेकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितावपि जघन्यतोऽन्तर्मुहूर्त भावना प्राग्वत्, उत्कर्षतो वनस्पतिकालो यथोदितरूपः, तत्रापि विशेषचिन्तायां पृथिवीकायिकैकेन्द्रियतिर्यग्योनिकनपुंसककायस्थितौ जघन्यतोऽन्तर्मुहुर्तमुत्कर्षतोऽसयेयकालोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीप्रमाणः, तथा चाह- "उकोसेणमसंखेनं कालं असंखेजाओ उस्सप्पि
ॐ**