________________
स स्वभावो न परस्य प्रदेशमात्रस्यापीत्यत्रापि सुधियः कारणान्तरं मृगयन्ते, आकाशलमात्रस्योभयत्रापि तुल्यत्लात् , विशेषणमन्तरेण च वैशिष्ट्यायोगात्, कारणान्तरं धर्माधर्मास्तिकायभावाभावावेव नापरमिति स्थितम्, अन्यच्च-तावन्मात्रस्याकाशखण्डस्य स स्वभावो न परस्येत्यपि कुतः प्रमाणात्परिकल्यते?, आगमप्रमाणादिति चेत् तथाहि-तावत्येवाकाशखण्डे जीवानां च पुट्रलानां च गतिस्थितिमतां गतिस्थिती त तन्त्र पाण्याने सरल इति, यद्येवं तांगमप्रामाण्यवलादेव धर्माधर्मास्तिफायावपि गतिस्थितिनिबन्धनमिष्येयाता | किमाकाशखण्डस्य निर्मूलस्वभावान्तरपरिकल्पनाऽऽयासेनेति कृतं प्रसङ्गेन । अथामीषामित्थं क्रमोपन्यासे किं प्रयोजनम् ?, उच्यते, इह धर्मास्तिकाय इति पदं मङ्गलभूतम् , आदी धर्मशब्दान्वितत्वात् , पदार्थप्ररूपणा च सम्प्रत्युत्क्षिमा वर्त्तते, ततो मङ्गलार्थमादौ धर्मास्तिकायस्योपादानं, धर्मास्तिकायप्रतिपक्षभूतश्चाधर्मास्तिकाय इति तदनन्तरमधर्मास्तिकायस्य, द्वयोरपि चानयोराधारभूतमाकाशमिति तदनन्तरमाकाशास्तिकायस्य, ततः पुनरजीवसाधादद्धासमयस्य, अथवा इह धर्माधर्मास्तिकायौ विभू न भवतः, तद्विभुलेन तस्सामर्थ्यतो
जीवपुद्गलानामस्खलितप्रचारप्रवृत्तेर्लोकव्यवस्थाऽनुपपत्तेः, अस्ति च लोकालोकव्यवस्था, तत एतावविभू सन्तौ यत्र क्षेत्रे समवगाढौ तासावत्प्रमाणो लोकः, शेषस्त्यलोक इति सिद्धम् , उक्तं च-"धर्माधर्मविभुलात्सर्वत्र च जीवपुद्गलविचारात् । नालोकः कश्चित्स्यान्न च
संमतमेतदार्याणाम् ॥१॥ तस्माद्धर्माधर्मावरगाढी व्याप्य लोकस्खं सर्वम । एवं हि परिच्छिन्नः सिद्ध्यति लोकस्तदविभुत्वात् ॥", तत एवं लोकालोकव्यवस्थाहेतू धर्माधर्मास्तिकायावित्यनयोरादावुपादानं, तत्रापि माङ्गलिकत्वात् प्रथमतो धर्मास्तिकायस्य, तत्प्रतिप-1
खात् ततोऽधर्मास्तिकायस्य, ततो लोकालोकव्यापित्वादाकाशास्तिकायस्य, तदनन्तरं लोके समयासमयक्षेत्रव्यवस्थाकारिखादद्वासमINIयस्थ, एवमागमानुसारेणान्यपि युक्त्यनुपाति वक्तव्यमित्यलं प्रसङ्गेन, प्रकृतं प्रस्तुमः, अत्रोपसंहारवाक्यं-सेत्तं अरूविअजीवामि
--