________________
--
"
:-
निर्विभागो भागोऽद्धासमयः, अयं चैक एव वर्तमानः परमार्थतः सन् नातीतानागताः, तेषां यथाक्रमं विनष्टानुत्पन्नत्वात् , तत: कायवाभावाद्देशप्रदेशकल्पनाविरहः, अथाकाशकालौ लोकेऽपि प्रतीताविति तो श्रद्धातुं शक्यते, धर्माधर्मास्तिकायौ तु कथं प्रत्येतत्र्यौ येन तद्विषया श्रद्धा भवेत् , उच्यते, गतिस्थितिकार्यदर्शनात्, तथाहि-यद् यदन्वयव्यतिरेकानुविधायि तत्तछेतुकमिति व्यवहर्त्तव्यं यथा चक्षुरिन्द्रियान्वयव्यतिरेकानुविधायि चाक्षुपं विज्ञानं, तथा च जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती यथाक्रमं धर्माधर्मास्तिकायान्वयव्यतिरेकानुविधायिन्यौ, तस्मात्ते तद्धेतुके. न घायमसिद्धो हेतुः, तथाहि-जीवानां पुद्गलानां च गतिस्थितिपरिणामपरिणतानामपि गतिस्थिती न रत्परिणमनमानहेतुके, तन्मात्रहेतुकतायामलोकेऽपि तत्प्रसक्तेः, अथ न तत्परिणमनमानं हेतुः किन्तु विशिष्टः परिणामः, स चेत्थंभूतो यथा लोकमात्रक्षेत्रस्यान्तरेऽत्र गतिस्थितिभ्यां भवितव्यं न बहिः प्रदेशमात्रमप्यधिकं, ननु स एवेस्थम्भूतो विशिष्टपरिणाम आकालं जीवानां पुद्गलानां चोत्कर्षतोऽप्येतावत्प्रमाण एवाभूद् भवति भविष्यति वा न तु कदाचनाप्यधिकतर इत्यत्र किं नियामकं?, यथा हि किल परमाणोर्जघन्यत: परमाणुमात्रक्षेत्रातिक्रममादि कुलोत्कर्षतश्चतुर्दशरब्बासकमपि |क्षेत्रं यावद् गतिरुपजायते तथा परतोऽपि प्रदेशमात्रमप्यधिका किं न भवति ?, तस्मादवश्यमत्र किञ्चिन्नियामकमपरं वक्तव्यं, तच्च | धर्माधर्मास्तिकायावेव नाकाशमात्रम्, आकाशमात्रस्यालोकेऽपि सम्भवात् , नापि लोकपरिमितमाकाशम् , इतरेतराश्रयदोषप्रसङ्गात् , तथाहि-जीवानां पुदलानां चान्यत्र गतिस्थित्योरभावे सिद्धे सति विवक्षितस्य परिमितस्याकाशस्य लोकलसिद्धिः, तत्सिद्धौ चान्यत्र जीवपुद्गलानां गतिस्थित्यभावसिद्धिरित्येकाभावेऽन्यतरस्याप्यभावः, अथ किमिदमसंवद्धनुच्यते ?, यत् लोकलेन सम्प्रति व्यवहियते
खण्डस्य गतिस्थित्युपष्टम्भकन्त्रभावो न परस्य प्रदेशमात्रस्यापि ततो न कश्चिहोषः, ननु तावन्मात्रस्यैवाकाश
५.
ASEACADERSHA