________________
W
ANP
+
सागरोपमस्य सार्द्धः सप्तभागः पल्योपमासङ्ख्येयभागन्यूनः, कयमिति चेटुच्यते-इह खीवेदादीनां कर्मणां खस्मात् २ उत्कृष्ट स्थितिबन्धात् मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोदाकोटीप्रमाणया भागे कृते यल्लभ्यते तत्पल्योपमासङ्ख्येयभागन्यून जघन्य स्थिति: "सेसाणुकोसाओ मिच्छत्तुकोसएण जंलद्ध"मित्यादिवचनप्रामाण्यात् , तत्र स्त्रीवेदस्योत्कृष्टः स्थितिबन्ध; पञ्चदशसागरोपमकोटीकोट्यः, तासां मिथ्यात्वस्थित्या भागो हियते, शून्यं शून्येन पातयेत् जाता उपरि पञ्चदश अधस्तारसप्ततिः, अनयोश्च छेद्यच्छेदकराश्योर्दशभिरपवर्तना जात उपर्येकः सार्द्ध: अधस्तात्सप्त आगतमेकसागरोपमस्य सार्द्धः सप्तभागः, पत्योपनासाख्येयमागन्यूनः क्रियते, इयं च व्याख्या मूलटीकाऽनुसारेण कृता, पञ्चसङ्ग्रहमतेनापीदमेव जघन्यस्थितिपरिमाणं केवलं पल्योपमास
ख्येयभागहीन (न) वक्तव्यं, तन्मतेन "सेसाणुकोसाओ मिच्छत्तठिईएँ जं लद्ध" इत्येतावन्मात्रस्यैव जघन्यस्थित्यानयनस्य करणस्य विद्य-3 मानत्वात् , कर्मप्रकृतिसञ्चहणीकारस्त्वित्थं जघन्यस्थित्यानयनाय करणसूत्रमाह-वग्गुकोसठिईणं मिच्छत्तुकोसगेण जं लद्धं । सेसाणं तु जहण्णं पलियासंखेजगेणूणं ॥ १ ॥” अस्यानरगमनिका-इह झानावरणीयप्रकृतिसमुदायो ज्ञानावरणीयवर्ग इत्युच्यते, दर्शनावरणीयप्रकृतिसमुदायो दर्शनावरणीयवर्गः, वेदनीयप्रकृतिसमुदायो वेदनीयवर्गः, दर्शनमोहनीयप्रकृतिसमुदायो दर्शनमोहनीयवर्ग:, चारित्रमोहनीयप्रकृतिसमुदायश्चारित्रमोहनीयवर्गः, नोकपायमोहनीयप्रकृतिसमुदायो नोकषायमोहनीयवर्गः, नामप्रकृतिसमुदायो नामवर्गः, गोत्रप्रकृतिसमुदायो गोत्रवर्गः, अन्तरायप्रकृतिसमुदायोऽन्तरायवर्गः, एतेषां (च) वर्गाणां या आसीया आसीया उत्कृष्टा स्थिति-2 त्रिंशत्सागरोपमकोटीकोट्यादिका तस्या मिथ्यात्वसत्कया उत्कृष्टया स्थित्या सप्ततिसागरोपमकोटीकोटीप्रमाणया भागे हते सति यवभ्यते तत्पस्योपमासङ्ख्येयभागम्यूनं सत् उक्तशेषाणां निद्रादीनां प्रकृतीनां जपन्यस्थितेः परिमाणमिति, ततस्तन्मवेन स्त्रीवेवस्य ज-15
।