________________
..
..
.
गौतमेम प्रभे कृते सति भगवानाह-गौतम! अधन्येनान्तर्मुहूर्त, कथमिति चेदुच्यते-इह काचित्खी स्त्रीलान्मरणेन च्युक्त्वा भवान्तरे पुरुषवेदं नपुंसकवेदं वाऽन्तर्मुहूर्तमनुभूय ततो मृत्ला भूयः स्त्रीखेनोत्पद्यते तत एव जघन्यतोऽन्तरमन्तर्मुहूर्त भवति, उत्कर्षतो वनस्प|तिकाल:-असङ्ख्येयपुद्गलपरावर्ताख्यो वक्तव्यः, तावता कालेनामुक्तौ सत्यां नियोगत: स्त्रीत्वयोगात् , स च वनस्पतिकाल एवं वक्तव्यः |
-"अणंताओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ अणंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं पोग्गलपरियट्टा आव|लियाए असंखेजइभागों" इति, एवमौधिकतिर्यकत्रीणां जलचरस्थलघरखचरखीणामौधिकमनुभ्यस्त्रीणां च जघन्यत उत्कर्पतश्चान्तरं | वक्तव्यम् , अभिलापोऽपि सुगमत्वात्स्वयं परिभावनीय: । कर्मभूमिकमनुष्यस्त्रियाः क्षेत्र-कर्मभूमिक्षेत्रं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तमुत्कर्षतोऽनन्तं कालं वनस्पतिकालप्रमाणं यावत् , धर्मचरणं प्रतीत्य जघन्येनै समयं, सर्वजघन्यस्य समयखात् , उत्कर्षेणानन्तं कालं, देशोनम-1 पार्द्ध पुद्गलपरावर्त यावत् , नातो ह्यधिकतरश्चरणलब्धिपातकालः, संपूर्णस्याप्यपार्द्धपुद्गलपरावर्त्तस्य दर्शनलब्धिपातकालस्य तत्र तत्र
प्रदेशे प्रतिषेधात् । एवं भरतैरावतमनुष्यस्त्रियाः पूर्वविदेहापरविदेहस्त्रियाश्च क्षेत्रतो धर्मचरणं चाश्रित्य वक्तव्यम् । अकर्मभूमकमनुष्यरित्रिया जन्म प्रतीत्यान्तरं जघन्येन दश वर्षसहस्राण्यम्तमहाभ्यधिकानि, कथमिति चेदुच्यते-इह काचिदकर्मभूमिका स्त्री मृत्वा
जघन्यस्थितिषु देवेषत्पन्ना, तत्र दश वर्षसहस्राण्यायुः परिपाल्य तत्क्षये च्युला कर्मभूमिषु मनुष्यपुरुषत्वेन मनुष्यस्त्रीत्वेन बोत्पद्यते, | देवेभ्योऽनन्तरमकर्मभूमिपूत्पादाभावात् , अन्तर्मुहूर्तेन मृखा भूयोऽप्यकर्मभूमिजस्त्रीखेन जायत इति भवन्ति जघन्यतो दश वर्षस-, हस्राण्यन्तर्मुहूर्ताभ्यधिकानि, उत्कर्षतो वनस्पतिकालोऽन्तरं, संहरणं प्रतीत्य जघन्यतोऽन्तर्मुहूर्तम् , अकर्मभूमिजस्त्रिया: कर्मभूमिषु संहत्य तावता कालेन तथाविधपुद्धिपरावृत्त्या भूयस्तत्रैव नयनात् , उत्कर्षतो वनस्पतिकालोऽन्तरं, तावता कालेन कर्मभूम्यु
44