________________
भ्यधिकानि तत्र सप्त भवा महाविदेहेषु अष्टमो भवो भरतैरावतेष्वेकान्वसुषमादौ त्रिपल्योपमप्रमाण इति 'धर्मचरणं प्रतीत्य' चारित्रासेवनमाश्रित्य जघन्येतैकं समयं सर्वविरतिपरिणामस्य तदावरणकर्मक्षयोपशमवैचित्र्यतः समयमेकं सम्भवात् तत ऊर्ध्वं मरणतः प्रतिपात्तभावात् उत्कर्षतो देशोना पूर्वकोटी, समप्रचरणकालस्योत्कर्षतो ऽप्येतावन्मात्रप्रमाणत्वात् । भरतैरावतकर्मभूमकमनुष्यस्त्रियाः स्त्रीत्वं 'क्षेत्रं प्रतीय' भरताद्येवाश्रित्य जधन्येनान्तर्मुहूर्त्त तच्च प्राग्वद्भावनीयम्, उत्कर्षतस्त्रीणि पल्योपमानि देशोनया पूर्वकोव्याऽभ्यधिकानि तानि चैवं पूर्वविदेहमनुष्यस्त्री अपरविदेहमनुष्यस्त्री वा पूर्वकोश्या युका केनापि भरतादावेकान्तसुषमादौ संहृता, सा च यद्यपि महाविदेहक्षेत्रोत्पन्ना तथाऽपि प्रागुक्तमागधपुरुषदृष्टान्तबलेन भारत्यैरावतीया वेति व्यपदिश्यते, ततः सा भारत्यादिव्यपदेशं प्राप्ता पूर्वकोटिं जीवित्वा स्वायुःक्षयतस्तत्रैव भरतादावेकान्तसुषमाप्रारम्भे समुत्पन्ना, तत एवं देशोनपूर्वकोट्यभ्यधिकं पत्योपमत्रयमिति । धर्मचरणं प्रतीत्य कर्मभूमिजलिया इव भावनीयं जघन्यत एक समयमुत्कर्षतो देशोनां पूर्वकोर्टी यावत्, पूर्वविदेहापर| विदेहकर्मभूमिजमनुष्य स्त्रियाम्तु क्षेत्रमधिकृत्य जवन्यतोऽन्तर्मुहूर्त्त तच सुप्रतीतं प्राग्भावितत्वात् उत्कर्षतः पूर्वकोटिपृथक्लं, तत्रैव भूय उत्पत्त्या धर्मचरणं प्रतीत्य समागतकर्मभूमिजस्त्रिया इव वक्तव्यं जघन्यत एकं समयमुत्कर्षतो देशोनां पूर्वकोटिं यावदिति | भावार्थः । उक्ता सामान्यतो विशेषता कर्मभूमिकमनुष्यस्त्रीव कव्यता, साम्प्रतमकर्म भूमकमनुष्य स्त्री वक्तव्यतां चिकीर्षुः प्रथमतः सामान्येनाह - 'अकम्मभूमिगमणुस्सित्थी णं भंते!" इत्यादि, अकर्मभूमकमनुष्यस्त्री, णमिति वाक्यालङ्कारे, अकर्मभूमिकमनुष्यस्त्रीति कालत: कियचिरं भवति ?, भगवानाह - गौतम ! 'जन्म' तत्रैव सम्भूतिलक्षणं 'प्रतीत्य' आश्रित्य जघन्येन पल्योपमं देशोनं, अष्टभागाद्यूनमपि देशोनं भवति ततो विशेषस्थापनायाइ - पल्योपमस्या सध्येय भागोनं जघन्यतः उत्कर्षतक्षीणि पल्योपमानि संहरणं प्रतीत्य