________________
पचिन्तां चिकीर्षुराह - युगमं, नवरं भरतैरावतेषु त्रीणि पल्योपमानि सुषमसुषमाय, पूर्वविदेहेषु क्षेत्रतः पूर्वकोटी, तत ऊर्ध्वं तत्र तथाक्षेत्र स्वाभाव्यादायुषोऽसम्भवात्, अकम्मभूमिगेत्यादि, जन्म प्रतीत्येति-अकर्म भूमिपूत्पतिमाश्रित्य जघन्यतो देशोनं पल्योपमं तथाष्टभागाद्यूनमपि देशोनं भवति ततो विशेषस्थापनायाह--पल्योपमस्यासङ्घयेय भागेनोनं, एतच्च हैमवत हैरण्यवत क्षेत्रापेक्षया द्रष्टव्यं तत्र जघन्यतः स्थितेरेवाच्यमाणायाः प्रापत्कणि पत्योपमानि तानि च देवकुरूत्तरकुर्वपेक्षया, 'संहरणं पडुचे 'त्यादि, संहरणं नाम कर्मभूमिजायाः स्त्रियोऽकर्मभूमिषु नयनं 'तत्प्रतीत्य' तदाश्रित्य जघन्येनान्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, इयमत्र भावना - इह कर्मभूमिकाऽप्यकर्मभूमिषु संहृता अकर्मभूमिकेति व्यवहियते, तत्क्षेत्र सम्बन्धभावात् यथा लोके कश्चिन्मगधादिदेशात्सुराष्ट्रान् प्रति प्रस्थितो गिरिनगरेषु निवासं कल्पयितुकामः सुराष्ट्र पर्यन्तग्रामप्राप्तः सन् समुत्पद्यमानेषु तथाविधेषु प्रयोजनेषु सौराष्ट्र इति व्यवहियते, तदधिकृताऽपि तत्र च संहता सती काचिदन्तर्मुहूर्त्त जीवति ततोऽपि वा भूयोऽपि संहियते काचित्पूर्वकोट्यायुष्का यावज्जीवमपि तत्रावतिष्ठते ततो जवन्यतोऽन्तर्मुहूर्त्तमुक्तमुत्कर्षतो देशोना पूर्वकोटीति, आह - भरतैरावतान्यपि कर्मभूमी वर्त्तन्ते तत्र चैिकान्तसुषमादौ त्रीण्यपि पत्योपमानि स्थितिरस्या भवति संहरणं च संभवति तत्कथं देशोना पूर्वकोटी भण्यते ? इति अत्रोच्यते, कर्मकाळविवक्षयाऽभिधानात् तस्य चैतावन्मात्रत्वादिति । हैमवत हैरण्यवताकर्मभूमिकमनुष्यस्त्रीणां जन्मतो जघन्येन देशोनं पल्योपमं पल्योपमासङ्घ बेयभागेन न्यूनमुत्कर्षत: परिपूर्ण पल्योपमं, संहरणमधिकृत्य जघन्यतोऽन्तर्मुहूर्त्तमुत्कर्षतो देशोना पूर्वकोटी, भावना प्रागिव । एवं 'हरिवासरम्मए' इत्याद्यपि सूत्रत्रयं भावनीयं, नवरं हरिवर्षरम्यकयोर्जन्मतो जघन्येन द्वे पस्योपमे पल्योपमासङ्घयेयभागन्यूने उत्कर्षतः परिपूर्णे द्वे पल्योपमे । देवकुरूत्तरकुरुषु जन्मतो जघन्येन त्रीणि पस्योपमानि पत्योपमासङ्घयेय भागहीनानि उ
3