________________
वम् -" उक्कोसेणं अनंतमताओ उत्सर्पिणीओसप्पिणीओ कालओ, खेत्तओ अनंता लोगा, असंखेज्जा पोग्गलपरियट्टा, ते णं पोन्गलपरियट्टा आवलियाए असंतो" इति एागान्तरं वसतिकायमध्यगमनेन प्रतिपत्तव्यम्, अन्यत्र गतावेतावतो| अन्तरस्यालभ्यमानत्वात् ॥ सम्प्रत्यल्पबहुत्वमाह - एतेषां भदन्त ! जीवान्दां त्रसानां स्थावराणां च मध्ये कतरे कतमेभ्योऽल्पा वा बहवो आ कतरे कनवैस्तुल्या वा?, अत्र सूत्रे विभक्तिपरिणामेन तृतीया व्याख्येया, तथा कतरे कतरेभ्यो ऽल्पा बहुकास्तुल्या) विशेषाधिका वा?, भगवानाह - गौतम! सर्वस्तोकालसाः, असङ्ख्यातत्वमात्रप्रमाणत्वात्, स्थावरा अनन्तगुणाः, अजघन्योत्कृष्टानन्तानन्तसङ्ख्या परिमाणत्वात् उपसंहारमाह — 'सेतं दुविहा संसारसमावन्ना जीवा' इति ॥ इति श्रीमलयगिरिविरचितायां जीवाजीदाभिगमटीकायां द्विविधा प्रतिपत्तिः समाप्तः ॥