________________
तथा चाह दुःषमान्धकारनिम प्रजनप्रवचनप्रदीपो भगवान् जिनभद्रगणिः क्षमाश्रमणो विशेषणवत्याम् — “सिज्यंति जत्तिया किर ३६ संववहारजीवरासिमझाओ । इंति अणाइवणस्सइरासीओ तचिया तंमि ॥ १ ॥” इति कृतं प्रसङ्गेन | सम्प्रति त्रसकायस्य कायस्थितिमानमाह - ' तसे णं भंते इत्यादि, वसे'ण' मिति पूर्ववत् 'त्रस इति' त्रस इत्यनेन पर्यायेण कालतः 'कियश्विर' कियन्तं कालं यावद्भवति १, भगवानाह - गौतम ! जघन्येनान्तर्मुहूर्त्तमुत्कर्षतोऽसङ्ख्येयं कालम् एनमेवासत्येयं कालक्षेत्राभ्यां निरूपयति' असंखिआओ' इत्यादि, असङ्ख्या उत्सर्पिण्यवसर्पिण्यः कालतः, क्षेत्रतोऽसत्या लोका असङ्ख्येयेषु लोकेषु यावन्त आकाशप्रदेशास्तेषां प्रतिसमयमेकैका पहारे यावत्योऽसङ्ख्या उत्सर्पिव्यवसर्पिण्यो भवन्ति तावत्य इति भावः, इयं चैतावती कायस्थितिर्गतित्रसं तेजस्कायिकं चायुकायिकं चाधिकृत्यावसेया न तु लब्धित्रसं, लब्धित्रसस्य कायस्थितेरुत्कर्षतोऽपि कतिपयचर्षाधिकसागरोपमसहस्रद्वयप्रमाणत्वात्, तथा चोक्तं प्रज्ञापनायाम् — “तसकाए णं भंते! तसकायत्ति कालतो कियचिरं होइ ?, गोयमा ! जम्भेणं अंतोमुद्दत्तं उकोसेणं दो सागरोवमसहस्साई संखेज्जवासमम्भद्दियाई” तथा “तेकाइए णं भंते! तेजकाइएति कालतो केवश्चिरं होति ?, गोयमा ! जहनेणं अंतोमुद्दत्तं उकोसेणं असंखेनं कालं असंखेजाओ उस्सप्पिणीओसप्पिणीओ कालओ, खेत्तओ असंखेज्जा लोगा, एवं वाउकाइयावि" इति ॥ सम्प्रति स्थावरत्वस्यान्तरं विचिन्तयिपुराहू - 'थावरस्स णं भंते! अंतर' मित्यादि सुगमं नवरमस या उत्सर्पिण्यव सर्पिण्यः कालतः, क्षेत्रतोऽसङ्ख्या लोकाः, इत्येतावत्प्रमाणमन्तरं तेजस्कायिकवायुकायिक मध्यगमनेनावसातव्यम्, अन्यत्र गतावेतावत्प्रमाणस्यान्तरस्यासम्भवात् ॥ 'तसस्स णं भंते! अंतर' मित्यादि सुगमं नवरम् 'उक्कोसेणं वणरसइकालो' इति, उत्कर्षतो वनस्पतिकालो वक्तव्यः, स चै
१ विध्यन्ति यावन्तः किलेह संव्यवहार राशिमध्यात् । आयान्ति अनादिवनस्पतिराशेः तावन्तस्तस्मिन् ॥ १ ॥