________________
४८० ]
[ पवयणसारो अथ श्रमणो भवितुमिच्छन् पूर्व कि किं करोतीत्युपविशति
आपिच्छ बंधुवरगं विमोचिदो गुरुकलतपुत्तेहिं । आसिज्ज णाणसणचरित्ततववीरियायारं ॥२०१॥
आपृच्छ्य बन्धुवर्ग विमोचितो गुरुकलत्रपुत्रः ।
आसाद्य ज्ञानदर्शन चारित्रतपोवीर्याचारम् ।।२०९॥ यो हि नाम श्रमणो भवितुमिच्छति स पूर्वमेव बन्धुवर्गमापृच्छते, पुरकलपुत्रेभ्य आत्मानं विमोचयति, ज्ञानदर्शनचारित्रतपोवीर्याचारमासीदति । तथाहि-एवं बन्धुवर्गमापृच्छते, अहो इदं जनशरीरबन्धुवर्गवतिन आत्मानः, अस्य जनस्य आत्मा म किंचनापि युष्माकं भवतीति निश्चयेन यूयं जानीतः तत आपृष्टा यूयं, अयमात्मा अघोद्भिन्नशानज्योति आत्मानमेवात्मनोऽनादिबन्धुमुपसर्पति । अहो इदंजनशरीरजनकरयात्मन्, अहो इजनशरीरजनन्या आत्मन्, अस्या जनस्थात्मा न युवाभ्यां जनितो भवतीति निश्चयेन युवां जानीतं तत इममात्मानं युवां विमुञ्चतं, अयमात्मा अशानियोशि: आत्मान. मेवात्मनोऽनादिजनकमुपसर्पति । अहो इवंजनशरीररमण्या आत्मन, अस्य जनस्वात्मानं न त्वं रमयसीति निश्चयेन त्वं जानीहि, तत इममात्मानं विमुञ्च, अयमात्मा अयोद्भिन्नज्ञानज्योतिः स्वानुभूतिमेवात्मनोऽनाविरमणीमुपसर्पति । अहो इवंजनशरीरपुत्रस्यात्मन् अस्य जनस्यात्मनो न त्वं जन्यो भवसीति निश्चयेन त्वं जानीहि तत इममारमानं विमुञ्च अयमात्मा अद्योद्भिन्नज्ञानज्योतिः आत्मानमेवात्मनोऽनादिजन्यमुपसर्पति । एवं गुरुकलत्रपुत्रेभ्य आत्मानं विमोचयति । तथा अहो कालविनयोपधानबहुमामानिहवार्थव्यञ्जनतवुभयसंपन्नत्वलक्षणज्ञानाचार, न शुद्धस्यात्मनस्त्वमसीति निश्चयेन जानामि तथापि त्वां तायदासीवामि यावत्त्वत्प्रसादात् शुद्धमात्मानमुपलभे । अहो निःशङ्कितत्वनिःकाक्षित्वनिविचिकित्सत्वनिर्मददृष्टित्वोपपतहणस्थितिकरणवात्सल्यप्रभावनालक्षणवर्शनाचार, न शुद्धस्यात्मनस्त्वमसीति निश्चयेन जानामि तथापि त्वां तावदासीदामि यावत् स्वत्प्रसादात् शुद्धमात्मानमुपलभे। अहो मोक्षमार्गप्रवृत्तिकारणपञ्चमहावतोपेतकायवाङ्मनोगुप्तोर्याभाषणादाननिक्षेपणप्रतिष्ठापनसमितिलक्षणचारित्राचार, न शुद्ध स्यात्मनस्त्वमसीति निश्चयेन जानामि तथापि त्वा ताववासीदामि यावत्वत्प्रसादात् शुद्धमात्मानमुपलभे। अहो अनशनावमौवर्यवृत्तिपरिसंख्यानरसपरित्यागविधिक्तशय्यासनकायक्लेशप्रायश्चित्तविनयवैयावृत्त्यस्वाध्यायध्यानव्युत्सर्गलक्षणतपआचार, न शुद्धस्यात्मनस्त्वमसीति निश्चयेन जानामि तथापि त्वां तावदासीदामि यावत्त्वत्प्रसादात् शुद्धमात्मानमुपलभे । अहो समस्ते