SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ पवयणसारो ] [ ३५६ अथ कालपदार्थस्यास्तित्वान्यथानुपपत्त्या प्रदेशमात्रत्वं साधयतिजस्स ण संति पदेसा' पदेसमेत्तं व तच्चदो णादं । सुण्णं जाण तमत्थं अत्यंतरभूव मत्थीदो ॥१४४॥ यस्य न सन्ति प्रदेशाः प्रदेशमा वा तत्त्वतो ज्ञातुम् । शून्यं जानीहि तमर्थमर्थान्तरभूतमस्तित्वात् ॥१४४।। अस्तित्वं हि तावदुत्पावव्ययनौव्यक्यात्मिका वृत्तिः। न खलु सा प्रवेशमन्तरेण सूश्यमाणा कालस्य संभवति, यतः प्रदेशाभावे वृत्तिमदभावः । स तु शून्य एव, अस्तित्वसंज्ञाया वृत्तेरर्थान्तरभूतत्वात् । न च वृत्तिरेव केवला कालो भवितुमर्हति वृत्तहि वृत्तिमन्समन्तरेणानुपपत्तेः, उपपत्तौ वा कथनुत्पादव्ययध्रौव्यक्यात्मकत्वम् । अनाद्यनन्तनिरन्तरानेकांशवशीकृतकात्मकत्वेन पूर्वपूर्वा शप्रध्यसादुत्तरोत्तरांशोत्पादादेकात्मनोव्यादिति चेत् । नेयम् । यस्मिन्नंशे प्रध्वंसो यस्मिश्चोत्पादस्तयोः सहप्रवृत्त्यभावात् कुतस्त्यमक्यम् । तथा प्रध्वस्तांशस्य सर्वथास्तमितत्वादुत्पद्यमानांशस्य वा संभवितात्मलाभत्वात्प्रध्वंसोत्पावैक्यतिधौव्यमेव कुतस्त्यम् । एवं सति नश्यति लक्षण्यं, उल्लसति क्षणभङ्गः, अन्तमुपैति नित्यं द्रव्यं, उदीयन्ते क्षणक्षयिणो भावाः । ततस्तस्वविप्लवभयात्कश्चिदवश्यमाश्रयभूतो वृत्तवृत्तिमाननुसतव्यः । स तु प्रदेश एवाप्रदेशस्यान्वयव्यतिरेकानुविधायित्वासिद्धेः। एवं सप्रवेशत्वे हि कालस्य कुत एकद्रव्यनिबन्धनं लोकाकाशतुल्यासंख्येयप्रदेशत्वं नाभ्युपगम्येत । पर्यायसमयाप्रसिद्धः । प्रदेशमात्रं हि द्रव्यसमयमतिकामतः परमाणोः पर्यायसमयः प्रसिद्धयति । लोकाकाशतुल्यासंख्येयप्रदेशत्वे तु द्रव्यसमयस्य कुतस्त्या तत्सिद्धिः । लोकाकाशतुल्यासंख्येयप्रदेशकद्रव्यत्वेऽपि तस्यक प्रदेशमतिकामतः परमाणोस्तत्तिद्धिरिति चेन्नैवं । एकदेशवृत्तः सर्ववृत्तित्वविरोधात् । सर्वस्यापि हि कालपदार्थस्य यः सूक्ष्मो वृत्त्यशः स समयो न तु तदेकदेशस्य । लियंकप्रचयस्योध्वंप्रचयत्वप्रसंगाच्च । तथाहि प्रथममेकेन प्रदेशेन वर्तते ततोऽन्येन ततोऽप्यन्तरेणेति तिर्यक्प्रचयोऽप्यूवंचयीभूय प्रदेशमात्रं द्रव्यमवस्थापयति । ततस्तिर्यक्प्रचयस्योर्ध्वप्रचयत्वमनिच्छता प्रथममेव प्रदेशमात्रं कालद्रव्यं व्यवस्थापयितव्यम् ॥१४४॥ भूमिका-अब, काल पदार्थ का अस्तित्व अन्यथा (अन्य प्रकार से) नहीं बन सकता, इसलिये उसका प्रदेशमात्रत्व सिद्ध करते हैं १. पएसा (ज० ००) 1. (२) पएसमेत्तं (ज० वृ०) ।
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy