SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ पवयणसारो ] [ ३१३ ___ अर्थवमात्मनो ज्ञेयतामापन्नस्य शुद्धत्वनिश्चयात ज्ञानतत्त्वसिद्धौ शुद्धात्मतत्त्वोपलम्भो भवतीति तमभिनन्दन् द्रव्यसामान्यवर्णनामुपसंहरति कत्ता करणं कम्मं फलं च अप्प ति णिच्छिदो समणो । परिणमदि व अण्णं जदि अपाणं लहदि सुद्धं ॥१२६॥ कर्ता करणं कर्म कर्मफलं चात्मेति निश्चितः श्रमणः । परिणमति नैवान्यद्यदि आत्मानं लभते शुद्धम् ॥१२६।। । यो हि नामवं कर्तारं करणं कर्म कर्मफलं चात्मानमेव निश्चित्य न खलु परद्रव्यं परिणमति स एव विश्रान्तपरद्रव्यसंपर्क द्रव्यान्तःप्रलीनपर्यायं च शुद्धमात्मानमुपलभते, न पुनरस्यः । तथाहि-यदा नामानादिप्रसिद्धपौद्गलिककर्मबन्धनोपाधिसंनिधिप्रधावितोपरागरंजितात्मवृत्ति पापुष्पसंनिधिप्रधावितोपरागरंजितात्मवृत्तिः स्फटिकमणिरिव परारोपितधिकारोऽहमासं संसारी तदापि न नाम मम कोऽप्यासोत, तदाप्यहमेक एवोपरक्तचिस्वभावेन स्वतन्त्रः कर्तासम्, अहमेक एवोपरक्तचित्स्वभावेन साधकतमः करणमासम्, अहमेक एवोपरक्तचित्परिणमनस्वभावेनात्मना प्रायः कर्मासम्, अहमेक एव चोपरक्त चित्परिणमनस्वभावस्य निष्पाधं सौख्यं विपर्यस्तलक्षणं दुःखाख्यं कर्मफलमासम् । इदानी पुनरनादिप्रसिद्धपौद्गलिककर्मबन्धनोपाधिसन्निधिध्वंसविस्फुरितसुविशुद्धसहजात्मवृत्तिर्जपापुष्पसंनिधिध्वंसविस्फुरितसुविशद्धसहजात्मवृत्तिः स्फटिकमणिरिव विश्रान्तपरारोपितविकारोऽहमेशान्तेनास्मि मुमुक्षुः, इदानीमपि न नाम मम कोऽप्यस्ति, इदानीमध्यहमेक एव सुविशुद्धचित्स्वभावेन स्वतन्त्रः कर्तास्मि, अहमेक एव च सुविशुद्धचित्स्वभावेन साधकतमः करणमस्मि, अहमेक एव च सुविशद्धचित्परिणमनस्वभावेनात्मना प्राप्यः कर्मास्मि, अहमेक एब व सुविशुद्धचित्परिणमनस्वभावस्य निष्पाद्यमनाकुलत्वलक्षणं सौख्यास्यं कर्मफलमस्मि । एवमस्य बन्धपद्धतौ मोक्षपद्धतौ चात्मानमेकमेव भावयतः परमाणोरिवैकत्वभावनोन्मुखस्य परद्रव्यपरिणतिर्न जातु जायते । परमाणुरिवभावितकत्वश्च परेण नो संपृष्यते। ततः परद्रव्यासंपृक्तत्वात्तुविशुद्धो भवति । कर्तृकरणकर्मकर्मफलानि चात्मत्वेन भावयन् पर्यायन संकीर्यते ततः पर्यायासंकीर्णत्वाच्च सुविशुद्धो भवतीति ॥१२६॥ भूमिका-अब, इस प्रकार ज्ञेयत्व को प्राप्त आत्मा के, शुद्धता के निश्चय से, जान तत्व की सिद्धि होने से पर शुद्ध आत्म तत्त्व की उपलब्धि (प्राप्ति होती है, इस प्रकार उसका अभिनन्दन करते हुये (अर्थात् आत्मा की शुद्धता के निर्णय को प्रशंसा करते हुये) द्रव्य सामान्य के वर्णन का उपसंहार करते हैं
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy