________________
पवयणसारो ।
[ २४१ अधोत्पादश्ययाव्यात्मकत्येऽपि सद्व्यं भवतीति विभावयति
सदवद्विदं सहावे दव्वं वन्धस्स जो हि परिणामो। अत्थेसु सो सहावो ठिदिसंभवणाससंबद्धो ॥६६॥
सदबस्थितं स्वभावे द्रव्यं द्रव्यम्य यो हि परिणामः ।
अर्थः । स्वमः लिन मानावः ६i इह हि स्वभावे नित्यमवतिष्ठमानत्वात्सदिति द्रव्यम् । स्वमावस्तु द्रव्यस्य धोव्योसाबोच्छेदेवयात्मकपरिणामः । यथैव हि द्रव्यवास्तुनः सामस्त्येनेकस्यापि विष्कम्मक्रमप्रवृत्तिवर्तिनः सूक्ष्मांशाः प्रदेशाः, तथैव हि व्यवृत्तेः सामस्त्येनकस्यापि प्रवाहकमप्रवृत्तिवर्तिनः सूक्मांशाः परिणामाः । यथा च प्रदेशानां परस्परब्य तिरेकनिबन्धनो विष्कम्मक्रमः, तथा परिणामाना परस्पर-व्यतिरेकनिबन्धनः प्रवाहकमः यथैव च ते प्रदेशाः स्वस्थाने स्वरूपपूर्वरूपाभ्यामुत्पन्नोच्छन्नत्वात्सर्वत्र परस्परानुस्पूतिसूश्रितकवास्तुतयानुत्पन्नप्रलीनत्वाच्च संभूतिसंहारोग्यात्मकमात्मानं धारयन्ति, तथैव ते परिणामाः स्वावसरे स्वरूपपूर्वरूपाज्यामुत्पन्नोच्छन्नत्वात्सर्वत्र परस्परानुस्यूतिसूत्रितकप्रवाहतयानुत्पन्नप्रलीनत्वाच्च संभूतिसंहारधोव्यात्मकमात्मानं धारयन्ति । यर्थव च य एव हि पूर्वप्रदेशोच्छेवनात्मको वास्तुसी. मान्तः स एव हि तवुत्तरोत्पादात्मकः, स एव च परस्परानुस्यूतिसूत्रितकवास्तुतयातदुभमारमक इति । तथैव य एव हि पूर्वपरिणामोच्छेदात्मक: प्रवाहसीमान्तः स एव हि
तयुत्तरोल्पावात्मकः, स एव च परस्परानुस्यूतिसूत्रितकप्रवाहतया तदुभयात्मक इति एवमस्य | स्वभावत एव विलक्षणायां परिणामपद्धतौ दुर्ललितस्य स्वभावानतिकमाविलक्षण मेष
सास्वमनुमोदनीयम् मुक्ताफलदामवत् । यर्थव हि परिगृहोलद्राघिम्नि प्रलम्बमाने मुक्ताफलद्रामनि समस्तेष्वपि स्वधामसूच्वकासत्सु मुक्ताफलेषूत्तरोतरेषु धामसूत्तरोत्तरमुक्ताफलाभामुदयनात्पूर्वपूर्वमुक्ताफलानामनुदयनात् सर्वत्रापि परस्परानुस्यूतिसूत्रकस्य सूत्रकस्यावस्थामास्वंलक्षण्यं प्रसिद्धिमवतरति, तथैव हि परिगृहीतनित्यवृत्तिनिवर्तमाने ब्रव्ये समस्तेयपि स्वावसरेखूपचकासत्तु परिणामेषत्तरोत्तरेष्ववसरेषत्तरोत्तरपरिणामानामुदयनात्पूर्वपूर्वपरिणामानामनुदयनात् सर्वत्रापि परस्परानुस्यूतिमूत्रकस्य प्रवाहस्यावस्थानातलक्षण्यं प्रसिदिमवतरति ॥६॥
भूमिका-अब, यह बतलाते हैं कि उत्पाद-व्यय-धौम्यात्मक होने पर भी द्रव्य 'सर' है