________________
२३४ ]
[ पवयणसारो व्यय धौव्य को त्यागता है । द्रव्य में हरसमय द्रव्य के ये तीनों ही लक्षण पाए जाते हैं । यही द्रव्य का स्वभाव है ॥६६॥ इदं तु सादृश्यास्तित्वाभिधानमस्तीति कथयति
इह विविहलक्खणाणं लक्खणमेगं सदित्ति सम्बगयं । उवदिसदा खलु धम्मं जिणवरवसहेण पण्णत्तं ॥६७॥
इह विविधलक्षणानां लक्षणमेक सदिति सर्वगतम् ।
उपदिशता खलु धर्म जिनवरवृषभण प्रज्ञप्तम् ॥६७।। इह किल प्रपञ्चितवैचित्र्येण द्रव्यान्तरेभ्यो न्यावृत्य वृत्तेन प्रतिद्रव्यं सीमानमासूत्रयता विशेषलक्षणभूतेन च स्वरूपास्तित्वेन लक्ष्यमाणानामपि सर्वव्याणामस्तमितवैचित्र्यप्रपञ्चं प्रवृत्य वत्तं प्रतिद्रव्यमासूत्रितं सीमानं मिन्दत्सदिति सर्वगतं सामान्य लक्षणभूतं सादृश्यास्तित्वमेकं खल्ववबोद्धव्यम् । एवं सदित्यभिधानं सरिति परिच्छेदनं च सर्वार्थपराशि स्यात् । यदि पुनरिदमेव न स्यात्तदा किचित्सदिति किचिदसदिति किचित्सच्चासच्चेति किनिदवाच्यमिति च स्यात् । तत्तु विप्रतिषिद्धमेव प्रसाध्यं चैतवनोकहवत् । यथा हि बहनां बहविधानामनोफहानामात्मीयस्यात्मीयस्य विशेषलक्षणभूतस्य स्वारूपास्तित्वस्यावष्टम्भेनोत्तिष्ठन्नात्व, सामान्यलक्षण-भूतेन सादृश्योद्भासिनानोकहत्त्वेनोत्थापितमेकत्वं तिरियति । तथा बहूनां बहुविधानां द्रव्याणामात्मीयात्मीयस्य विशेषलक्षणभूतस्य स्वरूपास्तित्वस्यावष्टम्भेनोत्तिष्ठन्नात्वं, सामान्यलक्षणभूतेन सादृश्योद्भासिना सदित्यस्य भावनोत्थापितमेकत्वं तिरियति । यथा च तेषामनोकहानां सामान्यलक्षणभूतेन सादृश्योद्धासिनानोकहत्वेनोत्थापिलेनैकल्येन तिरोहितमपि विशेषलक्षणभूतस्य स्वरूपास्तित्वस्थावष्टम्भेनोत्तिष्ठन्नात्वमुच्चकास्ति, तथा सर्वद्रव्याणामपि सामान्य लक्षणभूतेन सादृश्योद्धा. सिना सदित्यस्य भावनोत्थापितेनकत्वेन तिरोहितमपि विशेषलक्षणभूतस्य स्वरूपास्तित्वस्थावष्टम्भेनोत्तिष्ठन्नानात्वमुच्चकास्ति ६७॥
भूमिका-अब सादृश्य-अस्तित्व का कथन करते हैं
अन्वयार्थ-[धर्म] धर्म का [उपदिशता] उपदेश करने वाले [जिनवरवृषभेण] जिनवर वृषभ के द्वारा [इह] इस विश्व में [विविधलक्षणानां] विविध लक्षण वाले (भिन्न भिन्न स्वरूपास्तित्व वाले सर्व) द्रव्यों का [खलु] वास्तव में [सत् इति] 'सत्' ऐसा [सर्व गतं] सर्वगत (सब में व्यापने वाला) [एक लक्षणं] एक लक्षण [प्राप्तम्] कहा गया है ।