________________
ज्ञेयतत्त्व-प्रज्ञापन
अथ ज्ञेयतत्त्वप्रज्ञापन, तत्र पदार्थस्य सम्यग्द्रव्यगुणपर्यायस्वरूपमुपवर्णयति
अत्थो खलु वन्वमओ दव्वाणि गुणप्पगाणि भणिदाणि । तेहिं पुणो पज्जाया पज्जयमूढा हि परसमया ॥६॥
अर्थः खलु जसो द्रव्याणि गुणाकालि गणितानि ।
तैस्तु पुन: पर्यायाः पर्ययमूढा हि परसमयाः ॥६॥ इह किल यः कश्चन परिच्छिद्यमानः पदार्थः स सर्व एव विस्तारायतसामान्यस. मुदायात्मना द्रव्येणाभिनित्तत्वाद्न्यमयः । द्रव्याणि तु पुनरेकाश्रयविस्तारविशेषात्मकैर्गुणैर भिनित्तत्याद्गुणात्मकानि । पर्यायास्तु पुनरायतविशेषात्मका उक्तलक्षणव्यरपि गुणैरप्यभिनित्तत्वाद्रव्यात्मका अपि गुणात्मका अपि । तत्रानेकद्रव्यात्मकंक्यप्रतिपत्तिनिबन्धनो द्रव्यपर्यायः । स द्विविधः, समानजातीयोऽसमानजातीयश्च । तत्र समानजातीयो नाम यथा अनेकपुद्गलात्मको घणुकस्यणुक इत्यादि, असमानजातीयो नाम यथा जीवपुहंगलात्मको देवो मनुष्य इत्यादि । गुणद्वारेणायतानैक्यप्रतिपत्तिनिबन्धनो गुणपर्यायः। सोऽपि द्विविधः स्वमाषपर्यायो विभावपर्यायश्च । तत्र स्वभावपर्यायो नाम समस्तद्रव्याणामात्मीयात्मीयागुरुलघुगुणद्वारेण प्रतिसमयसमुदोयमानषट्स्थानपतितवृद्धिहानिनानात्वानुभूतिः, विभावपर्यायो नाम रूपादीनां ज्ञानादीनां वा स्वपरप्रत्ययवर्तमानपूर्वोत्तरावस्थावतीर्णतारतम्योपदर्शितस्वभावविशेषानेकत्वापत्तिः । अथेनं दृष्टान्तेन द्रढयति-यथैध हि सर्व एवं पटोऽवस्थायिना विस्तारसामान्य समुदायेनाभिधावताऽऽयतसामान्यसमुदायेन चाभिनिर्वय॑मानस्तन्मय एव, तथैव हि सर्व एक पदार्थोऽवस्थायिना विस्तारसामान्यसमुदायेनाभिधावताऽऽयतसामान्यसमुदायेन च ब्रन्यनाम्नाभिनिर्वय॑मानो द्रव्यमय एव । यथैव च पटेऽवस्थायी विस्तारसामान्यसमुदायोऽभिधावन्नायतसामान्यसमुदायो वा गुणरमिनिर्वय॑मानो गुणेभ्यः पृथगनुपलम्माद्गुणात्मक एव । तथैव च पदार्थेष्ववस्थायी विस्तारसामान्यसमु. दायोऽभिधावन्नायतसामान्यसमुदायो वा द्रव्यनामा गुणरभिनिर्वय॑मानो गुणेभ्यः पृथगनुपलम्भाद्गुणात्मक एव । तथैव च पदार्थेष्ववस्थायी विस्तारसामान्यसमुदायोऽभिधावन्नायतसामान्य समुदायो वा द्रव्यनामा गुणरभिनिर्वय॑मानो गुणेभ्यः पृथगनुपलम्भाद्गुणात्मक एव ।