SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ DF पंचास्तिकाय प्राभृत स्कंधा भवन्तीत्यचेतनस्यापरेणाचेतनेन संबंधात्समानजातीयो भण्यते । असमानजातीय; कथ्यतेजीवस्य भवांतरगतस्य शरीरनोकर्मपुद्गलेन सह मनुष्यदेवादिपर्यायोत्पत्ति; चेतनजीवस्याचेतनपुद्गलद्रव्येण सह मेलापकादसमानजातीय; द्रव्यपर्यायो भण्यते । एते समानजातीया असमानजातीयाश्च अनेकद्रव्यात्मिकैकरूपा द्रव्यपर्याया जीवपुद्गलयोरेन भवन्ति । अशुद्धा एव भवन्ति । कस्मादिति चेत् ? अनेकद्रव्याणां परस्परसंश्लेषरूपेण संबंधात् । धर्माद्यन्यद्रव्याणां परस्परसंश्लेषसंबंधेन पर्यायो न घटते परद्रः सयाशुद्ध पर्यायपि न मदते। इदानीं मुगायाः कथ्यन्ते । तेपि द्विधा स्वभावविभावभेदेन । गुणद्वारेणान्वयरूपाया: एकत्वप्रतिपत्तेर्निबंधनं कारणभूतो गुणपर्याय:, स चैकद्रव्यगत एव सहकारफले हरितपोंडुरादिवर्णवत् । पुद्गलस्य । मतिज्ञानादिरूपेण ज्ञानान्तरपरिगमनवज्जीवस्य। एवं जीवपुद्गलयोर्विभावगुणरूपाः पर्याया ज्ञातव्याः । स्वभावगुणपर्याया अगुरुलघुगुण-षड्वानिवृद्धिरूपाः सर्वद्रव्यसाधारणाः । एवं स्वभावविभावगुणपर्याया ज्ञातव्याः । अथवा द्वितीयप्रकारेणार्थव्यंजनपर्यायरूपेण द्विधा पर्याया भवन्ति । तत्रार्थपर्यायाः क्षणक्षयिणस्तथावाग्गोचरा विषया भवन्ति । व्यंजनपर्यायाः पुनः स्थलाश्चिरकालस्थायिनो वाग्गोचराश्छद्मस्थदृष्टिविषयाश्च भवन्ति । एते विभावरूपा व्यंजनपर्याया जीवस्य नरनारकादयो भवन्ति, स्वभावव्यंजनपर्यायो जीवस्य सिद्धरूपः। अशुद्धार्थपर्याया जीवस्य षट्स्थानगतकषायहानिवृद्धिविशुद्धिसंक्लेषरूपशुभाशुभलेश्यास्थानेषु ज्ञातव्याः । पुद्गलस्य विभावार्थपर्याया व्यणुकादिस्कंधेषु वर्णान्तरादिपरिणमनरूपाः । विभावव्यंजनपर्यायाश्च पुद्गलस्य व्यणुकादिस्कंधेष्वेव चिरकालस्थायिनो ज्ञातव्योः । शुद्धार्थपर्याया अगुरुलघुकगुणषड्हानिवृद्धिरूपेण पूर्वमेव स्वभावगुणपर्यायव्याख्यानकाले सर्वद्रव्याणां कथिताः । एते चार्थव्यंजनपर्यायाः पूर्व "जेसिं अत्थिसहाओ" इत्यादिगाथायां ये भणिता जीवपुद्गलयोः स्वभावविभावद्रव्यपर्यायाः स्वभावविभावगुणपर्यायाश्च ये भणितास्तेषु मध्ये तिष्ठन्ति। अत्र गाथायां च ये द्रव्यपर्यायाः गुणपर्यायाश्च भणितास्तेषु च मध्ये तिष्ठन्ति । तर्हि किमर्थ पृथक्कथिता इति चेदेकसमयवर्तिनोऽर्थपर्याया भण्यंते चिरकालस्थायिनो व्यंजनपर्याया भण्यते इति कालकृतभेदज्ञापनार्थं । अत्र सिद्धरूपशुद्धपर्यायपरिणतं शुद्धजीवास्तिकायाभिधानं शुद्धात्मद्रव्यमुपादेयमिति भावार्थः ॥१६॥ हिंदी तात्पर्यवृत्ति गाथा-१६ - उत्थानिका-आगे पहली गाथामें जिन गुण और पर्यायों को कहा है उन ही को प्रगट करते हैं अन्वय सहित सामान्यार्थ-(भावा) सतरूपपदार्थ ( जीवादीया) जीव आदि छः हैं। उनमें ( जीवगुणा) जीवके गुण ( चेदणा) चेतना (य) और ( उवओगो) उपयोग हैं (य) और ( सुरणरणारयतिरिया) देव, मनुष्य, नारकी और तिर्यश्च ये ( जीवस्स) जीवकी ( बहुगा) बहुतसी (पज्जया) पर्यायें हैं।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy