________________
षद्रव्य-पंचास्तिकायवर्णन ( जीवगुणाः ) जीवके गुण ( चेतना च उपयोगः ) चेतना तथा उपयोग हैं ( च ) और ( जीवस्य पर्यायाः ) जीवको पर्यायें ( सुरनरनारकतिर्यञ्चः ) देव-मनुष्य-नारक-तिर्यश्चरूप ( बहवः ) अनेक
टीका-यहाँ भावों ( द्रव्यों ), गुणों और पर्यायों को बतलाते हैं
जीवादि छह पदार्थ वे. 'भाव' हैं । उनके गुण और पर्यायें प्रसिद्ध हैं, तथापि आगे ( अगली गाथामें ) जो उदाहरण देना है उसकी प्रसिद्धिके हेतु जीवके गुणों और पर्यायोंका कथन किया जाता है...__ जीवके गुणों ज्ञानानुभूतिस्वरूप शुद्धचेतना तथा कार्यानुभूतिस्वरूप और कर्मफलानुभूतिस्वरूप अशुद्धचेतना है और चैतन्यानुविधायी-परिणाम स्वरूप, सविकल्पनिर्विकल्परूप शुद्धता-अशुद्धताविकलता धारण करनेवाला दो प्रकारका उपयोग है।
जीवकी पर्यायें इस प्रकार हैं-अगुरुलघुगुणकी हानिवृद्धिसे उत्पन्न होनेवाली पर्यायें शुद्ध पर्यायें हैं और सूत्रमें ( इस गाथामें ) कही हुई, देव-नारक-तिर्यञ्च-मनुष्य-स्वरूप पर्याये परद्रव्यके सम्बन्धसे उत्पन्न होती हैं इसलिये अशुद्ध पर्यायें हैं ।।१६।।
संस्कृत तात्पर्यवृत्ति गाथा-१६ अथ पूर्वगाथोक्तान् गुणपर्यायभावान् प्रज्ञापयति
भावा जीवादीया भावा: पदार्था भवंति । कानि। जीवादिषड्द्रव्याणि, धर्मादिचतुर्द्रव्याणां गुणपर्यायानग्रे यथास्थानं विशेषेण कथयंति, अत्र तावत् जीवगुणा अभिधीयते । जीवगुणा चेदणा य उवओगा जीवगुणा भवन्ति । के ते । शुद्धाशुद्धरूपेण द्विविधा चेतना ज्ञानदर्शनोपयोगी चति संग्रहवाक्यं वार्तिकं समुदायकथनं तात्पर्यार्थकथनं संपिंडितार्थकथनमिति यावत् । तद्यथा । ज्ञानचेतना शुद्धचेतना भण्यते, कर्मचेतना कर्मफलचेतना च अशुद्धा भण्यते सा त्रिप्रकारापि चेतना अग्रे चेतनाधिकारे विस्तरेण व्याख्यास्यते । इदानीपमुपयोगः कथ्यते । संविकल्पो ज्ञानोपयोगी निर्विकल्पो दर्शनोपयोगः । ज्ञानोपयोगोऽष्टधा, मतिश्रुतावधिमनःपर्ययकेवलज्ञानानीति संज्ञानपंचके कुमतिकुश्रुतविभंगरूपेणाज्ञानत्रयमित्यष्टधा ज्ञानोपयोगः । तत्र केवलज्ञानं क्षायिकं निरावरणात्वात शुद्धं, शेषाणि सप्त मतिज्ञानादीनि क्षायोपशमिकानि सावरणत्वादशुद्धानि । दर्शनोपयोगश्चक्षुरचक्षुरवधिकेवलदर्शनरूपेण चतुर्धा । तत्र केवलदर्शनं क्षायिकं निरावरणत्वात् शुद्धं चक्षुरादित्रयं क्षायोपशमिकं सावरणत्वादशुद्धं । इदानी जीवपर्यायाः कथ्यन्ते । सुरणरणारयतिरिया जीवस्य य पज्जया बहुगा--सुरनरनारकतिर्यंचो जीवस्य विभावद्रव्यपर्याया बहवो भवन्ति । किंच । द्विधा पर्याया द्रव्यपर्याया गुणपर्यायाश्च । द्रव्यपर्यायलक्षणं कथ्यते-अनेकद्रव्यात्मिकाया ऐक्यप्रतिपत्तेर्निबन्धनकारणभूतो द्रव्यपर्याय: अनेकद्रव्यात्मिकैकयानवत् । स च द्रव्यपर्यायो द्विविधः समानजातीयोऽसमानजातीयश्चेति । समानजातीयः कथ्यते-द्वे त्रीणि वा चत्वारीत्यादिपरमाणुपुद्गलद्रव्याणि मिलित्वा