SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ ३९८ - मोक्षमार्ग प्रपंच सूचिका चूलिका ___सं० ता०– अथाहदादिभक्तिरूपपरसमयप्रवृत्तपुरुषस्य साक्षान्मोक्षहेतुत्वाभाचेपि परंपरया मोक्षहेतुत्वं द्योतयन् सन् पूर्वोक्तमेव सूक्ष्मपरसमयव्याख्यानं प्रकारान्तरेण कथयति, दूरयरं णिव्वाणं-दूरतरं निर्वाणं भवति । कस्य । अभिगदबुद्धिस्स-अभिगतबुद्धेः। तद्गतबुद्धेः कं । प्रति ? सपदत्थं तित्थयरं-जीवादिपदार्थसहिततीर्थकरं प्रति। पुनरपि किंविशिष्टस्य । सुत्तरोचिस्स-श्रुतरोचिन आगमरुचे: 1 पुनरपि कथंभूतस्य संजमतवसंपजुत्तस्स—संयमतपः संप्रयुक्तस्यापीति । इतो विस्तरः । बहिरंगेन्द्रियसंयमप्राणसंयमबलेन रागाद्युपाधिरहितस्य ख्यातिपूजालाभनिमित्तानेकमनोरथरूपविकल्पजालज्वालावलिरहितत्वेन निर्विकल्पस्य च चित्तस्य निजशुद्धात्मनि संयमार्थ स्थितिकरणात्संयतोपि अनशनाद्यनेकविधबाह्यतपश्चरणबलेन समस्तपरद्रव्येच्छानिरोधलक्षणेनाभ्यन्तरतपसा च नित्यानन्दैकात्मस्वभावे प्रतपनाद्विजयनात्तपस्थोपि यदा विशिष्ट संहननादिशत्यभावान्निरंतरं तत्र स्थातुं न शक्नोति तदा किंकरोति । क्वापि काले शुद्धात्मभावनानुकूलजीवादिपदार्थप्रतिपादकमागर्म रोचते, कदाचित्पुनर्यथा कोपि रामदेवादिपुरुषो देशान्तरस्थसीतादिस्त्रीसमीपादागतानां पुरुषाणां तदर्थ दानसन्मानादिकं करोति तथा मुक्तिश्रीवशीकरणार्थ निर्दोषिपरमात्मनां तीर्थंकरपरमदेवानां तथैव गणधरदेवभरतसगररामपांडवादिमहापुरुषाणां चाशुभरागवंचनार्थ शुभधर्मानुरागेण चारितपुराणादिकं शृणोति भेदाभेदरत्नत्रयभावनारतानामाचार्योपाध्यायादीनां गृहस्थावस्थायां च पुनर्दानपूजादिकं करोति च तेन कारणेन यद्यप्यनन्तसंसारस्थितिच्छेदं करोति कोप्यचरमदेहस्तद्भचे कर्मक्षयं न करोति तथापि पुण्यास्रवपरिणामसहितत्वात्तद्भवे निर्वाणं न लभते भवान्तरे पुनर्देवेन्द्रादिपदं लभते । तत्र विमानपरिवारादिविभूतिं तृणवद्गणयन् सन् पंचमहाविदेहेषु गत्वा समवशरणे वीतरागसर्वज्ञान पश्यति निर्दोषपरमात्माराधारकगणधरदेवादीनां च तदनन्तरं विशेषेण दृढधों भूत्वा चतुर्थगुणस्थानयोग्यमात्मभावनामपरित्यजन् सन् देवलोके कालं गमयति ततोपि जीवितान्ते स्वर्गादागत्य मनुष्यभवे चक्रवादिविभूति लब्ध्वापि पूर्वभवभावितशुद्धात्मभावनाबलेन मोहं न करोति ततश्च विषयसुखं परिहत्य जिनदीक्षां गृहीत्वा निर्विकल्पसमाधिविधानेन विशुद्धज्ञानदर्शनस्वभावे निजशुद्धात्मनि स्थित्वा मोक्षं गच्छतीति भावार्थः ।।१७०|| हिन्दी ता०-उत्थानिका-आगे अरहंत आदिकी भक्तिरूप परसमयमें आचरण करनेवाले पुरुषके साक्षात् मोक्षके कारणका अभाव है तो भी यह भक्ति परम्परा से मोक्षका हेतु है ऐसा प्रकाश करते हुए जिसको पहले कह चुके हैं उसी सूक्ष्म परसमयके व्याख्यानको अन्य प्रकार से कहते हैं अन्वय सहित सामान्यार्थ-( सुत्तरोइस्स ) आगमको रोचक हो, ( संजमतवसंपजुत्तस्स ) संयम और तपका अभ्यासी हो परन्तु ( सपयत्थं तित्ययरं अभिगदबुद्धेः ) नव पदार्थ सहित तीर्थकरकी भक्तिमें बुद्धिको लगानेवाला हो उसके (णिव्याण) मोक्ष ( दूरतरं ) बहुत दूर
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy