SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
## 17 The success of time (kāla) is due to the fact that it (1) prevents the four paths of hell (narka), animal existence (tiryanch), human existence (manushya), and godhood (devatva), and (2) leads to the attainment of pure soul (ātma) essence, which is characterized by freedom from dependence (paratantra) and the attainment of independence (svatantrata), and is the ultimate cause of liberation (nirvāṇa) in a sequential manner. ||2||
Page Text
________________ १७ पंचास्तिकाय प्राभृत पुनश्च, उसकी ( समयकी) सफलता इसलिये है कि वह समय (१) नारकत्व, तिर्यंचत्व, मनुष्यत्व तथा देवत्वस्वरूप चार गतियों का निवारण करने के कारण और ( २ ) परतन्त्रतानिवृत्ति स्वतन्त्रताप्राप्ति जिसका लक्षण है-ऐसे शुद्धात्मतत्त्व की उपलब्धिरूप निर्वाण का परम्परारूप कारण होने से फलसहित है ।।२।। संस्कृत तात्पर्यवृत्ति गाथा-२ अथ द्रव्यागमरूपं शब्दसमयं नत्वा पंचास्तिकायरूपमर्थसमयं वक्ष्यामीति प्रतिज्ञापूर्वकाधिकृताभिमतदेवतानमस्कारकरणेन संबन्धाभिधेयप्रयोजनानि सूचयामीत्यभिप्रायं मनसि संप्रधार्य सूत्रमिदं निरूपयति-पणमिय-प्रणम्य । स कः कर्ता । एसो-एषोऽहं । केन? सिरसा उत्तमाङ्गेन । कं । समयं शब्दसमयं इणं-इमं प्रत्यक्षीभूत । किंविशिष्टं । समणमुहुग्गदं-सर्वज्ञवीतरागमहाश्रमणमुखोद्गतं । पुन: किंविशिष्टं ? अटुं-जीवादिपदार्थं । पुनरपि किंरूपं । चदुगदिविणिवारणं-नरकादिचतुर्गतिविनिवारणं ! पुनश्च कथंभूतं । सणिव्वाणं-सनिर्वाणं सकलकर्मविमोचनलक्षणनिर्वाणं इत्थंभूतं शब्दसमय कथभूतम् ? गंभीरं मधुरं मरोहरतरं दोषव्यपेतं हितं, कण्ठोष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतं । स्पष्टं तत्तदभीष्टवस्तुकथकं नि:शेषभाषात्मकं, दूरासन्नसमं समं निरुपम जैनं वचः पातु नः ।।१।। तथ चोक्तम्येनाज्ञानतमस्ततिर्विघटते ज्ञेये हिते चाहिते, हानादानमुपेक्षणं च समभूत्तस्मिन् पुनः प्राणिनः । येनेयं दृगपैति तां परमतां वृत्तं च येनानिशं, तज्ज्ञानं मम मानसाम्बुजमुदे स्तात्सूर्यवर्योदयः ।। ___इत्यादि गुणविशिष्टवचनात्मकं नत्वा किं करोमि । वोच्छामि-वक्ष्यामि । कं । अर्थसमयं । सुणुह-शृणुत यूयं हे भव्या इति क्रियाकारकसंबंधः । अथवा द्वितीयव्याख्यानं । श्रमणमुखोद्गतं पञ्चास्तिकायलक्षणार्थसमयप्रतिपादकत्वादर्थपरंपरया चतुर्गतिनिवारणं चतुर्गतिनिवारणत्वादेव सनिर्वाणं एषोऽहं ग्रंथकरणोद्यतमना: कुण्डकुन्दाचार्य: प्रणम्य-मनस्कृत्य नत्वा । केन । शिरसा मस्तकेनोत्तमाङ्गेन । कं प्रणम्य ? पूर्वोक्तश्रमणमुखोद्गतादिविशेषणचतुष्टयसंयुक्तं समयं शब्दरूपं द्रव्यागममिम प्रत्यक्षीभूतं तं शब्दसमयं प्रणम्य पश्चात् किं करोमि । वक्ष्यामि कथयामि प्रतिपादयामि शृणुत है भल्या यूयं । कं वक्ष्यामि । तमेव शब्दसमयवाच्यमर्थसमयं शब्दसमयं नत्वा पश्चादर्थसमयं वक्ष्ये ज्ञानसमयप्रसिद्ध्यर्थमिति । वीतरागसर्वज्ञमहाश्रमणमुखोद्गतं शब्दसमयं कश्चिदासन्नभव्यः पुरुषः शृणेति शब्दसमयवाच्यं पश्चात्पञ्चास्तिकायलक्षणमर्थसमयं जानाति तदन्तर्गते शुद्धजीवास्तिकायलक्षणार्थे वीतरागनिर्विकल्पे समाधिना स्थित्वा चतुर्गतिनिवारणं करोति, चतुर्गतिनिवारणादेव निर्वाणं लभते स्वात्मोत्थमनाकुलत्वलक्षणं निर्वाणफलभूतमनन्तसुखं च लभते जीवस्तेन कारणेनायं द्रव्यागमरूपशब्दसमयो नमस्कर्तुं व्याख्यातुं च युक्तो भवति । इत्यनेन व्याख्यानक्रमेण संबन्धाभिधेयप्रयोजनानि सूचितानि भवन्ति ।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy