SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १७ पंचास्तिकाय प्राभृत पुनश्च, उसकी ( समयकी) सफलता इसलिये है कि वह समय (१) नारकत्व, तिर्यंचत्व, मनुष्यत्व तथा देवत्वस्वरूप चार गतियों का निवारण करने के कारण और ( २ ) परतन्त्रतानिवृत्ति स्वतन्त्रताप्राप्ति जिसका लक्षण है-ऐसे शुद्धात्मतत्त्व की उपलब्धिरूप निर्वाण का परम्परारूप कारण होने से फलसहित है ।।२।। संस्कृत तात्पर्यवृत्ति गाथा-२ अथ द्रव्यागमरूपं शब्दसमयं नत्वा पंचास्तिकायरूपमर्थसमयं वक्ष्यामीति प्रतिज्ञापूर्वकाधिकृताभिमतदेवतानमस्कारकरणेन संबन्धाभिधेयप्रयोजनानि सूचयामीत्यभिप्रायं मनसि संप्रधार्य सूत्रमिदं निरूपयति-पणमिय-प्रणम्य । स कः कर्ता । एसो-एषोऽहं । केन? सिरसा उत्तमाङ्गेन । कं । समयं शब्दसमयं इणं-इमं प्रत्यक्षीभूत । किंविशिष्टं । समणमुहुग्गदं-सर्वज्ञवीतरागमहाश्रमणमुखोद्गतं । पुन: किंविशिष्टं ? अटुं-जीवादिपदार्थं । पुनरपि किंरूपं । चदुगदिविणिवारणं-नरकादिचतुर्गतिविनिवारणं ! पुनश्च कथंभूतं । सणिव्वाणं-सनिर्वाणं सकलकर्मविमोचनलक्षणनिर्वाणं इत्थंभूतं शब्दसमय कथभूतम् ? गंभीरं मधुरं मरोहरतरं दोषव्यपेतं हितं, कण्ठोष्ठादिवचोनिमित्तरहितं नो वातरोधोद्गतं । स्पष्टं तत्तदभीष्टवस्तुकथकं नि:शेषभाषात्मकं, दूरासन्नसमं समं निरुपम जैनं वचः पातु नः ।।१।। तथ चोक्तम्येनाज्ञानतमस्ततिर्विघटते ज्ञेये हिते चाहिते, हानादानमुपेक्षणं च समभूत्तस्मिन् पुनः प्राणिनः । येनेयं दृगपैति तां परमतां वृत्तं च येनानिशं, तज्ज्ञानं मम मानसाम्बुजमुदे स्तात्सूर्यवर्योदयः ।। ___इत्यादि गुणविशिष्टवचनात्मकं नत्वा किं करोमि । वोच्छामि-वक्ष्यामि । कं । अर्थसमयं । सुणुह-शृणुत यूयं हे भव्या इति क्रियाकारकसंबंधः । अथवा द्वितीयव्याख्यानं । श्रमणमुखोद्गतं पञ्चास्तिकायलक्षणार्थसमयप्रतिपादकत्वादर्थपरंपरया चतुर्गतिनिवारणं चतुर्गतिनिवारणत्वादेव सनिर्वाणं एषोऽहं ग्रंथकरणोद्यतमना: कुण्डकुन्दाचार्य: प्रणम्य-मनस्कृत्य नत्वा । केन । शिरसा मस्तकेनोत्तमाङ्गेन । कं प्रणम्य ? पूर्वोक्तश्रमणमुखोद्गतादिविशेषणचतुष्टयसंयुक्तं समयं शब्दरूपं द्रव्यागममिम प्रत्यक्षीभूतं तं शब्दसमयं प्रणम्य पश्चात् किं करोमि । वक्ष्यामि कथयामि प्रतिपादयामि शृणुत है भल्या यूयं । कं वक्ष्यामि । तमेव शब्दसमयवाच्यमर्थसमयं शब्दसमयं नत्वा पश्चादर्थसमयं वक्ष्ये ज्ञानसमयप्रसिद्ध्यर्थमिति । वीतरागसर्वज्ञमहाश्रमणमुखोद्गतं शब्दसमयं कश्चिदासन्नभव्यः पुरुषः शृणेति शब्दसमयवाच्यं पश्चात्पञ्चास्तिकायलक्षणमर्थसमयं जानाति तदन्तर्गते शुद्धजीवास्तिकायलक्षणार्थे वीतरागनिर्विकल्पे समाधिना स्थित्वा चतुर्गतिनिवारणं करोति, चतुर्गतिनिवारणादेव निर्वाणं लभते स्वात्मोत्थमनाकुलत्वलक्षणं निर्वाणफलभूतमनन्तसुखं च लभते जीवस्तेन कारणेनायं द्रव्यागमरूपशब्दसमयो नमस्कर्तुं व्याख्यातुं च युक्तो भवति । इत्यनेन व्याख्यानक्रमेण संबन्धाभिधेयप्रयोजनानि सूचितानि भवन्ति ।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy