SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकाय प्राभृत तदनंतरं एवं कत्ता' इत्यादिगाथाद्वयेन क्रमेण कर्मसंयुक्तत्वं कर्मरहितत्वं च कथयतीति परिहारमुख्यत्वेन सप्तगाथा गताः । एवं पाठक्रमेणाष्टदशगाथाभिः स्थलपंचकेनैकांतमतनिराकरणाय तथैवानेकांतमतस्थापनाय च सांख्यमतानुसारिशिष्यसंबोधनार्थं कर्तृत्वं बौद्धमतानुयायिशिष्यं प्रति बोधनार्थं भोक्तृत्त्वं सदाशिवमताश्रितशिष्यसंदेहविनाशार्थ कर्मसंयुक्तत्वमिति कर्तृत्वभोक्तृत्वकर्मसुयुक्तवाधिकारत्रयं ज्ञातव्यं ! इत ऊर्ध्वं जीवास्तिकायसंबन्धिनवाधिकारव्याख्यानानंतरं “एक्को जेम महप्पा' इत्यादिगाथात्रयेण जीवास्तिकायचूलिका एवं पंचास्तिकायषद्रव्यप्रतिपादकप्रथममहाधिकारसंबंधिकारेषष्टांतराधिकारे मध्ये त्रिपंचशद्गाथाप्रमितचतुर्थांतरधिकारे समुदायपातनिका । तयथा-अथ संसारावस्थस्याप्यात्मनः शुद्धनिश्चयेन निरुपाधिविशुद्धभावान् तथैवाशुद्धनिश्चयेन सोपाधिभावकर्मरूपरागादिभावान् तथा चासद्भूतव्यवहारेण द्रव्यकर्मोपाधिजनिताशुद्धभावांश्च यथासंभवं प्रतिपादयति-जीवोत्ति हवदि-आत्मा हि शुद्धनिश्चयेन सत्ताचैतन्यबोधादिशुद्धप्राणैर्जीवति तथा चाशुद्धनिश्चयेन क्षायोपशमिकौदयिकभावप्राणैर्जीवति तथैव चानुपचरितासद्भूतव्यवहारेण द्रव्यप्राणश्च यथासंभवं जीवति जीविष्यति जीवितपूर्वश्चेति जीवो भवति । चेदा-शुद्धनिश्चयेन शुद्धज्ञानचेतनया तथैवाशुद्धनिश्चयेन कर्मकर्मफलरूपया चाशुद्धचेतनया युक्तत्वाच्चेतयिता भवति । उवओगविसेसिदो-निश्चयेन केवलज्ञानदर्शनरूपशुद्धोपयोगेन तथैव चाशुद्धनिश्चयेन मतिज्ञानादिक्षायोपशमिकाशुद्धोपयोगेन युक्तत्वादुपयोगविशेषितो भवति । पह-निश्चयेन मोक्षमोक्षलारणरूपशुद्धपरिणामपरिणमनसमर्थत्वात्तथैव चाशुद्धनयेन संसारसंसारकारणरूपाशुद्धपरिणामपरिणमनसमर्थत्वात् प्रभुर्भवति । कत्ता-शुद्धनिश्चयनयेन शुद्धभावानां परिणामानां तथैवाशुद्धनिश्चयेन भावकर्मरूपरागदिभावानां तथा चानुपचरितासद्भूतव्यवहारेण द्रव्यकर्मनोकर्मादीनां कर्तृत्वात्कर्ता भवनि, भोत्ता-शुद्धनिश्चयेन शुद्धात्मोत्थवीतरागपरमानंदरूपसुखस्य तथैवाशुद्धनिश्चयेनेन्द्रियजनितसुखदुःखानां तथा चानुपचरितासद्भूतव्यवहारेण सुखदुःखसाधकेष्टानिष्टाशनपानादिबहिरङ्गविषयाणां च भोक्तृत्वात् भोक्ता भवति, सदेहमेत्तो-निश्चयेन लोक्राकाशप्रमितासंख्येयप्रदेशप्रमितोपि व्यवहारेण शरीरनामकर्मोदयजनिताणुमहच्छरीरप्रमाणत्वात्स्वदेहमात्रो भवति,-ण हि मुत्तो। मूर्तिरहितः, असद्रूतव्यवहारेणानादिकर्मबंधसहितत्वात्मूतोपि शुद्धनिश्चयनयेन वर्णादिरहितत्वादमूर्तो भवति । कम्मसंजुत्तो-शुद्धनिश्चयनयेन कर्मरहितोप्यानुपचरितासद्भूतव्यवहारनयेन द्रव्यकर्मसंयुक्तत्वात् तथैव अशुद्धनिश्चयनयेन रागादिभावकर्मयुक्तत्वात्कर्मसंयुक्तश्च भवति । इति शब्दार्थनयार्थों कथितौ, इदानी मतार्थः कथ्यते-जीवत्वव्याख्याने"वच्छक्खरं भव-सारित्य-सम्ग-णिरय-पियराय । चुल्लिय-हंडयि-पुण-मवउ ण दिटुंता जाय।" ___ इति दोहकसूत्रकथितनवदृष्टांतैश्चार्वाकमतानुसारिशिष्यापेक्षया सर्वजीवसिद्ध्यर्थ अनादिचेतनागुणव्याख्यानं च तदर्थमेव । अथवा असामान्यचेतनाव्याख्यानं सर्वमतसाधारणं ज्ञातव्यं, अभिन्नज्ञानदर्शनोपयोगव्याख्यानं तु नैयायिकमतानुसारिशिष्यप्रतिबोधनार्थ मोक्षोपदेशकमोक्षसाधकप्रभुत्वव्याख्यानं वीतरागसर्वज्ञप्रणीतं वचनं प्रमाणं भवतीति ।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy