SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९६ षड्वव्य-पंचास्तिकायवर्णन "उवओगो खलु दुविहो" इत्यायकोनविंशतिगाथापर्यंतमुपयोगाधिकारः कथ्यते-तत्रैकोनविंशतिगाथासु मध्ये प्रथमतस्तावत् ज्ञानदर्शनोपयोगद्वयसूचनार्थ "उवओगो खलु' इत्यादिसूत्रमेकं, तदनंतरमष्टविधज्ञानोपयोगसंज्ञाकथनार्थ 'आभिणि' इत्यादि सूत्रमेकं, अथ मत्यादिसंज्ञानपंचकविवरणार्थं, “मदिणाण' मित्यादि पाठक्रमेण सूत्रपञ्चकं, तदनंतरमज्ञानत्रयकथनरूपेण 'मिच्छत्ता अण्णाणं' इत्यादि सूत्रमेकं इति ज्ञानोपयोगसूत्राष्टकं, अथ चक्षुरादिदर्शनचतुष्टयप्रतिपादनमुख्यत्वेन 'दंसणमवि' इत्यादि सूत्रमेकं । एवं ज्ञानदर्शनोपयोगाधिकारगाथामादिं कृत्वांतरस्थलपंचकसमुदायेन गाथानवकं गतं । अथ गाथादशकपर्यंतं व्यवहारेण जीवज्ञानयोः संज्ञालक्षणप्रयोजनादिभेदेपि निश्चयनयेन प्रदेशास्तित्वाभ्यां नैयायिकं प्रत्यभेदस्थापनं क्रियते अग्न्युष्णत्वयोरभेदवत् । जीवज्ञानयोः संज्ञालक्षणप्रयोजनानां स्वरुपं कथ्यते । तथाहि-जीवद्रव्यस्य जीव इति संज्ञा ज्ञानगुणस्थ ज्ञानमिति संज्ञा चतुर्भिः प्राणैर्जीवति जीविष्यति जीवितपूर्वो वा जीव इति जीवद्रव्यलक्षणं, ज्ञायते पदार्था अनेनेति ज्ञानगुणलक्षणं । जीवद्रव्यस्य बंधमोक्षादिपर्यायैरविनष्टरूपेण परिणमनं प्रयोजनं ज्ञानगुणस्य पुनः पदार्थपरिच्छित्तिमात्रमेव प्रयोजनमिति संक्षेपेण संज्ञालक्षणप्रयोजनानि ज्ञातव्यानि । तत्र दशगाथासु मध्ये जीवज्ञानयोः संक्षेपेणाभेदस्थापनार्थ ‘ण विअप्पदि' इत्यादि सूत्रत्रयं, अथ व्यपदेशादयो द्रव्यगुणानां भेदे कथंचिदभेदेपि घटत इत्यादि समर्थनरूपेण ‘ववदेसा' इत्यादिगाथात्रयं, तदनंतरमेकक्षेत्रावगाहित्वेनायुतसिद्धानामभेदसिद्धानामाधाराधेयभूतानां पदार्थानां प्रदेशभेदेपि सति इहात्मनि ज्ञानमिह तंतुषु पट इत्यादिरूपेण इहेदमिति प्रत्ययः संबंध: समवाय इत्यभिधीयते नैयायिकमते तस्य निषेधार्थ ‘ण हि सो समवायाहिं" इत्यादि सूत्रद्वयं, पुनश्च गुणगुणिनोः कथंचिदभेदविषये दृष्टांतदातव्याख्यानार्थं 'वण्णरस' इत्यादि सूत्रद्वयमिति । दृष्टातलक्षणमाह--दृष्टावंतौ धौ स्वभावावग्निधूमयोरिव साध्यसाधकयोर्वादिप्रतिवादिभ्यां कर्तृभूताभ्यामविवादेन यत्र वस्तुनि स दृष्टांत इति । अथवा संक्षेपेण यथेति दृष्टांतलक्षणं तथेति दाटीतलक्षणमिति । एवं पूर्वोक्तगाथानवके स्थलपंचकमत्र तु गाथादशके स्थलचतुष्टय चेति समुदायेन नवभिरंतरस्थलैरेकोनविंशतिसूत्रैरुप - योगाधिकारपातनिका। अथानंतर वीतरागपरमानंदसुधारसपरमसमरसीभावपरिणतिस्वरूपात् शुद्धजीवास्तिकायात्सकाशाद्धिनं यत्कर्मकर्तृत्वभोक्तृत्वकर्मसंयुक्तत्वत्रयस्वरूपं सदसत्प्रतिपादनार्थं यत्र तत्रानुपूर्व्याष्टादशगाथापर्यंत व्याख्यानं करोति । तत्राष्टादशगाथासु मध्ये प्रथमस्थले 'जीवा अणाइणिहणा' इत्यादि गाथात्रयेण समुदायकथनं, तदनंतरं द्वितीयस्थले 'उदयेण' इत्यायेकगाथायामौदयिकादिपञ्चभावव्याख्यानं अथ तृतीयस्थले 'कम्मं वेदयमाणो' इत्यादिगाथाष्टकेन कर्तृत्वमुख्यतया व्याख्यानं, अथ चतुर्थस्थले 'कम्म कम्म कुव्वदि' इत्याघेका पूर्वपक्षगाथा, तदनंतरं पंचमस्थले परिहारगाथा सप्त । तत्र सप्तगाथासु मध्ये प्रथम 'ओगाढगाढ' इत्यादि गाथात्रयेण निश्चयेन द्रव्यकर्मणा जीव: कर्ता न भवतीति कथ्यते तदनंतरं निश्चयनयेन जीवस्य द्रव्यकर्माकर्तृत्वेपि 'जीवा पोग्गलकाया' इत्याद्येक गाथया कर्मफले भोक्तृत्व, अथ 'तम्हा कम्मं कत्ता' इत्याघेकसूत्रेण कर्तृत्वभोक्तृत्वयोरूपसंहारः,
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy