________________
९६
षड्वव्य-पंचास्तिकायवर्णन "उवओगो खलु दुविहो" इत्यायकोनविंशतिगाथापर्यंतमुपयोगाधिकारः कथ्यते-तत्रैकोनविंशतिगाथासु मध्ये प्रथमतस्तावत् ज्ञानदर्शनोपयोगद्वयसूचनार्थ "उवओगो खलु' इत्यादिसूत्रमेकं, तदनंतरमष्टविधज्ञानोपयोगसंज्ञाकथनार्थ 'आभिणि' इत्यादि सूत्रमेकं, अथ मत्यादिसंज्ञानपंचकविवरणार्थं, “मदिणाण' मित्यादि पाठक्रमेण सूत्रपञ्चकं, तदनंतरमज्ञानत्रयकथनरूपेण 'मिच्छत्ता अण्णाणं' इत्यादि सूत्रमेकं इति ज्ञानोपयोगसूत्राष्टकं, अथ चक्षुरादिदर्शनचतुष्टयप्रतिपादनमुख्यत्वेन 'दंसणमवि' इत्यादि सूत्रमेकं । एवं ज्ञानदर्शनोपयोगाधिकारगाथामादिं कृत्वांतरस्थलपंचकसमुदायेन गाथानवकं गतं । अथ गाथादशकपर्यंतं व्यवहारेण जीवज्ञानयोः संज्ञालक्षणप्रयोजनादिभेदेपि निश्चयनयेन प्रदेशास्तित्वाभ्यां नैयायिकं प्रत्यभेदस्थापनं क्रियते अग्न्युष्णत्वयोरभेदवत् । जीवज्ञानयोः संज्ञालक्षणप्रयोजनानां स्वरुपं कथ्यते । तथाहि-जीवद्रव्यस्य जीव इति संज्ञा ज्ञानगुणस्थ ज्ञानमिति संज्ञा चतुर्भिः प्राणैर्जीवति जीविष्यति जीवितपूर्वो वा जीव इति जीवद्रव्यलक्षणं, ज्ञायते पदार्था अनेनेति ज्ञानगुणलक्षणं । जीवद्रव्यस्य बंधमोक्षादिपर्यायैरविनष्टरूपेण परिणमनं प्रयोजनं ज्ञानगुणस्य पुनः पदार्थपरिच्छित्तिमात्रमेव प्रयोजनमिति संक्षेपेण संज्ञालक्षणप्रयोजनानि ज्ञातव्यानि । तत्र दशगाथासु मध्ये जीवज्ञानयोः संक्षेपेणाभेदस्थापनार्थ ‘ण विअप्पदि' इत्यादि सूत्रत्रयं, अथ व्यपदेशादयो द्रव्यगुणानां भेदे कथंचिदभेदेपि घटत इत्यादि समर्थनरूपेण ‘ववदेसा' इत्यादिगाथात्रयं, तदनंतरमेकक्षेत्रावगाहित्वेनायुतसिद्धानामभेदसिद्धानामाधाराधेयभूतानां पदार्थानां प्रदेशभेदेपि सति इहात्मनि ज्ञानमिह तंतुषु पट इत्यादिरूपेण इहेदमिति प्रत्ययः संबंध: समवाय इत्यभिधीयते नैयायिकमते तस्य निषेधार्थ ‘ण हि सो समवायाहिं" इत्यादि सूत्रद्वयं, पुनश्च गुणगुणिनोः कथंचिदभेदविषये दृष्टांतदातव्याख्यानार्थं 'वण्णरस' इत्यादि सूत्रद्वयमिति । दृष्टातलक्षणमाह--दृष्टावंतौ धौ स्वभावावग्निधूमयोरिव साध्यसाधकयोर्वादिप्रतिवादिभ्यां कर्तृभूताभ्यामविवादेन यत्र वस्तुनि स दृष्टांत इति । अथवा संक्षेपेण यथेति दृष्टांतलक्षणं तथेति दाटीतलक्षणमिति ।
एवं पूर्वोक्तगाथानवके स्थलपंचकमत्र तु गाथादशके स्थलचतुष्टय चेति समुदायेन नवभिरंतरस्थलैरेकोनविंशतिसूत्रैरुप - योगाधिकारपातनिका। अथानंतर वीतरागपरमानंदसुधारसपरमसमरसीभावपरिणतिस्वरूपात् शुद्धजीवास्तिकायात्सकाशाद्धिनं यत्कर्मकर्तृत्वभोक्तृत्वकर्मसंयुक्तत्वत्रयस्वरूपं सदसत्प्रतिपादनार्थं यत्र तत्रानुपूर्व्याष्टादशगाथापर्यंत व्याख्यानं करोति । तत्राष्टादशगाथासु मध्ये प्रथमस्थले 'जीवा अणाइणिहणा' इत्यादि गाथात्रयेण समुदायकथनं, तदनंतरं द्वितीयस्थले 'उदयेण' इत्यायेकगाथायामौदयिकादिपञ्चभावव्याख्यानं अथ तृतीयस्थले 'कम्मं वेदयमाणो' इत्यादिगाथाष्टकेन कर्तृत्वमुख्यतया व्याख्यानं, अथ चतुर्थस्थले 'कम्म कम्म कुव्वदि' इत्याघेका पूर्वपक्षगाथा, तदनंतरं पंचमस्थले परिहारगाथा सप्त । तत्र सप्तगाथासु मध्ये प्रथम 'ओगाढगाढ' इत्यादि गाथात्रयेण निश्चयेन द्रव्यकर्मणा जीव: कर्ता न भवतीति कथ्यते तदनंतरं निश्चयनयेन जीवस्य द्रव्यकर्माकर्तृत्वेपि 'जीवा पोग्गलकाया' इत्याद्येक गाथया कर्मफले भोक्तृत्व, अथ 'तम्हा कम्मं कत्ता' इत्याघेकसूत्रेण कर्तृत्वभोक्तृत्वयोरूपसंहारः,