________________
९५
पंचास्तिकाय प्राभृत नित्ये तथाप्यगुरुलघुपरिणतिरूपस्वभावपर्यायापेक्षया विभावव्यञ्जनपर्यायापेक्षया चानित्ये । कारणपुद्गलधमाधमाकाशकालद्रव्याणि व्यवहारनयन जीवस्य शरीरवाङ्मनः प्राणापानादिगतिस्थित्यवगाहवर्तनाकार्याणि कुर्वतीति कारणानि भवन्ति, जीवद्रव्यं पुनर्यद्यपि गुरुशिष्यादिरूपेण परस्परोपग्रहं करोति तथापि पुद्गलादिपंचद्रव्याणां किमपि न करोति इत्यकारणं । कत्ता-शुद्धपारिणामिकपरमभावग्राहकेण शुद्धद्रव्यार्थिकनयेन यद्यपि बंधमोक्षद्रव्याभावरूपपुण्यपापघटपटादीनामकर्ता जीवस्तथाप्यशुद्धनिश्चयेन शुभाशुभोपयोगाभ्यां परिणतः सन् पुण्यपापबंधयो: कर्ता तत्फलभोक्ता च भवति । विशुद्धज्ञानदर्शनस्वभावनिजशुद्धात्मद्रव्यसम्यक्श्रद्धानज्ञानानुष्ठानरूपेण शुद्धोपयोगेन तु परिणतः सन् मोक्षस्यापि कर्ता तत्फलभोक्ता च, शुभाशुभशुद्धपरिणामानां परिणमनमेव कर्तृत्वं सर्वत्र ज्ञातव्यमिति पुद्गलादीनां पञ्चद्रव्याणां च स्वकीयस्वकीयपरिणामेन परिणमनमेव कर्तृत्वं, वस्तुवृत्या पुन: पुण्यपापादिरूपेणाकर्तृत्वमेव, सव्वगदं-लोकालोकव्याप्त्यपेक्षया सर्वगतामाकाशं भण्यते, लोकव्याप्त्यपेक्षया धर्माधर्मी च जीवद्रव्यं पुनरेकैकजीवापेक्षया लोकपूरणावस्था विहायासर्वगतं नानाजीवापेक्षया सर्वगतमेव भवति । पुद्गलद्रव्यं पुनर्लोकरूपमहास्कंधापेक्षया सर्वगतं शेषपुद्गलापेक्षया सर्वगतं न भवतीति । कालद्रव्यं पुनरेककालाणुद्रव्यापेक्षया सर्वगतं न भवति, लोकप्रदेशप्रमाणनानाकालाणुविवक्षया लोके सर्वगतं । इदरंहि यप्पवेसो-यद्यपि सर्वद्रव्याणि व्यवहारेणकक्षेत्रावगाहेनान्योन्यानुप्रवेशेन तिष्ठन्ति तथापि निश्चयेन चेतनाचेतनादिस्वकीयस्वकीयस्वरूपं न त्यजंतीति । अत्र षड्द्रव्येषु मध्ये वीतरागचिदानंदैकादिगुणस्वभावं शुभाशुभमनोवचनकायव्यापाररहितं निजशुद्धात्मद्रव्यमेवोपादेयमिति भावार्थः ।।१।।
इत ऊर्ध्वं "जीवा पोग्गलकाया" इत्यादिगाथायां पूर्व पंचास्तिकाया ये सूचितास्तेषामेव विशेषव्याख्यानं क्रियते । तत्र पाठक्रमेण त्रिपंचाशद्गाथाभिर्नवांतराधिकारैर्जीर्ववास्तिकायव्याख्यान प्रारभ्यते । तासु त्रिपंचाशद्गाथासु मध्ये प्रथमतस्तावत् चार्वाकमतानुसारिशिष्यं प्रति जीवसिद्धिपूर्वकत्वेन नवाधिकारक्रमसूचनार्थ “जीवोत्ति हवदि चेदा" इत्याद्येकाधिकारसूत्रगाथा भवति । "तत्रादौ प्रभुता तावज्जीवत्वं देहमानता । अमूर्तत्त्वं च चैतन्यमुपयोगात्तथा क्रमात् ।।१।। कर्तृता भोक्तृता कर्मायुक्तत्वं च त्रयं तथा । कथ्यते योगपद्येन यत्र तत्रानुपूर्व्यतः ।। २।।"
इति श्लोकद्रयेन भट्टमतानुसारिशिष्यं प्रति सर्वज्ञसिद्धिपूर्वकत्वेनाधिकारव्याख्यानं क्रमश: सूचितम्। तत्रादौ प्रभुत्वव्याख्यानमुख्यत्वेन भट्टचार्वाकमतानुसारिशिष्यं प्रति सर्वज्ञसिद्ध्यर्थं "करममल" इत्यादि गाथाद्वयं भवति तदनंतरं चार्वाकमतानुसारिशिष्यं प्रति जीवसिद्ध्यर्थं जीवत्वव्याख्यानरूपेण "पाणेहिं चदुहिं' इत्यादि गाथात्रयं, अथ नैयायिकमीमांसकसांख्यमताश्रितशिष्यं प्रति जीवस्य स्वदेहमात्रस्थापनार्थं "जह पउम" इत्यादिसूत्रद्वयं, तदनंतरं भट्टचार्वाकमतानुकूलशिष्य प्रति जीवस्यामूर्तत्वज्ञापनार्थं "जेसिं जीव सहावो" इत्यादिसूत्रत्रयं, अथानादिचैतन्यसमर्थनव्याख्यानेन पुनरपि चार्वाकमतनिराकरणार्थं "कम्माणं फल"- मित्यादि सूत्रद्वयं। एवमधिकारगाथामादि कृत्वोत्तराधिकारपंचकसमुदायेन त्रयोदश गाथा गताः । अथ नैयायिकमतानुसारिशिष्यसंबोधनार्थ