________________
९८
जैनेंद्रपक्रियायां
शब्दः । तस्याप्यविशेषः । एवं शरदसंपत्विपदादयः । स्वं छतास्तथा अप्रसिद्धाः । चकारांतस्त्वचशब्दः । तस्य कुत्वजश्त्वच । त्वग् । इत्यादि । छ् । एवं वाच्प्रभृतयः । टकारांता अप्रसिद्धाः । तकारांतो विद्युत्शब्दः । तस्याप्यविशेषः । एवं त्रिंशत्चत्वारिंशत्प्रभृतयः । ककारांतोऽप्रसिद्धः । पकारान्तोऽपशब्दः । ततो बहुवचनमेव । जसि - खमृनप्तृ इत्यादिना दीत्वं । श्रापः | अपः । मकारादौ -
:
३३० | भ्ययः । ५ । २ । १६३ | अपशब्दस्य गोर्नि मिते भारादौ तकारादेशो भवति । अद्भिः । अद्भयः | अद्भ्यः । अपाम् | अप्सु | शकारान्तो दृशशब्दः । तस्य कुत्वादिः । दृक् । मृग् । दृशौ । दृशः । इत्यादि । एवं दिशप्रभृतयः । निश्राब्दस्य भेदः । व्रश्चेत्यादिसाहचर्याद्धोः शकारस्य षत्वमिति चेत् जश्त्वादि, तस्यासिद्धत्वान्न कुत्वं । निच् । निज् । निशौ । निशः । इत्यादि । स्तोरचुना रचुरिति सकारस्य शकारः । शस्त्रोऽमीति छ । निच्छु । षकारांतस्त्विष्शब्दः । स च रत्नमुष् शब्दवत् । दधृषु । ऋत्विगादिना कयंतत्वात् कुत्वादि । दधृक । दष्टग् । दषौ । दधृषः । इत्यादि । सकारान्तो शब्दः । ततः स्वादयः । पदांतेरीत्यादिः । अन्यत्र षत्वम् । आचिः । अर्चिषौ । अर्चिषः । इत्यादि । सुपि शरि सश्चेति प सकारः | आष्यु | अर्चिषु । एवं सुयशस्प्रभृतयः । अनुखारा. चन्ता अप्रसिद्धाः |
J
इति इताः स्त्रीलिंगाः
-