________________
इलंसाः पुंलिंगाः ।
९१
अकार उच्चारणार्थः । निरटतीति विगृद्ध स्वियादिः । ततः स्वादयः । निरद् । निरद् । निरटौ । निरटः । इत्यादि । एवं निप्पडादयः । तकारान्तो मरुच्छब्दः । ततः स्वादयः । मरुत् । मरुद् । मरुतौ । मरुतः इत्यादि । एवं त्वत्शब्दः । भवत् शब्दस्य भेदः । भवतु इति स्थिते उकारः उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१६ । अत्वसोऽभ्वादेः । ४ । ४ । ११ । अत्यन्तस्थ असन्तस्य च भ्वादिवर्जितस्य उद्घो दीर्भवत्यकौ सौ परतः । सुखादि । भवान् । भव॑तौ । भवंतः । किसंबोधने
३१७ | भगवद्भवत्वघवतो रिः काववस्यौः । ५ । ४ | ६ | भगवत् भवतु श्रघवदित्येतेषां वा रिर्भवति को परतः तत्सन्निधाने च अवशब्दस्य सर्वस्य औकारादेशः । रेफस्य विसर्जनीयः । हे भोः । हे भवन् । हे भवती । हे भवंतः । भवता । भवद्भ्याम् । भवद्भिः । इत्यादि । एवं भगवदघवच्छब्दा उगिदंताबुन्नेयौ । गोमतुशब्दस्य गोमान् । गोमंतौ । गोमंतः । इत्यादि । भवतृशब्दस्य भेद: । ऋकार उगित्कार्यार्थः । ततः स्वादयो नुमादिः । भवन् । भवतः । भवंतः । इत्यादि । एवं जरत्भविष्यत्प्रभृतयः । महच्छब्दस्य भेदः । महतृ इति स्थिते कार उगित्कार्यार्थः । ततः स्वादयो नुमादिः ।
I
३१८ | स्महतौ । ४ । ४ । ७ । सकारान्तस्य महच्छब्दस्य च अकौ धे यो नकारस्तस्योको दीर्भवति । सुखादि । महान् । महांतौ | महांतः । हे महन् । हे महांतों । हे
I