________________
७६
जैनेंद्रप्रक्रियायां-- दकारादेशो भवति । अनडद्याम । अनडदिरित्यादि नेयं । यकारान्तोऽभिधेयलिंगः समयशब्दः । अयौ गतौ । औकारों दार्थः । सम्शब्दास्सुः । झरित्युप् । समयते इति विगृह्य "मन्वन्क्वनिविचाक्वचित्" इति विच् । स च अप्रयोगी । चकार एबर्थः । इकार उच्चारणार्थः । वकारो ऽसमासिद्धयर्थः । पादिना सह सः । ततः स्वादयः। समय । समयौ। समयः। हे समय। हे समयौ । हे समयः । समयम् । समयौ । समयः । समया । ब्योः सं वल्काविति यखं । समभ्यां । समाभिः । इत्यादि नेयं । एवं सुचयादयोऽपि । वकारान्त आश्रयालिंगः सुदिवाब्दः ।, शोभना द्यौरस्येति विगृह्य वसः सुदिन् । ततः स्वादयः ।
२७६। चौः ।५।१। ६५ । दिवित्यस्याच्युत्पन्नस्य मृदः सौ औकारो निपात्यते सोश्चरित्वाविसर्जनीयौ । यणादेशः । सुद्यौः । सुदिवौ । सुदिकः । हे सुद्यौः । हे सुदिवौ । हेसुदिवः । सुदिवम् । सुदिवौ । सुदिवः । सुदिवा । हलादौ--
२७७ ! दिवो हल्युत् । ४।३।१२४॥ दिवः पदस्योदादेशो भवति हलादौ परतः। तकारो विकारानवृत्यर्थः । सुधभ्याम् । सुद्युभिः । इत्यादि नेयं । रेफान्तश्चतुर राब्दो वाच्यलिंगो वहुवचनान्तः । जसि "चतुरनडुहोवाः" इत्युकारस्य वादेशः । चत्वारः । हे चत्वारः । चतुरः । चतुर्भिः । चतुर्थ्यः । चतुभ्यः । आमि-प्रेस्म्बाम् चतुरो नुडिति नुङ् णत्वं च । चतुर्णाम् । सुपि रश्च सुपीति नियमाद सत्वविसर्जनीयौ न भवतः । चतुर्ष ।