________________
+
+
जला पुलिंगाः ।
कृत्संज्ञस्त्यः कर्तरि भवति । क्विप् पुनः कृत् ।
१३१ | क्रुदमिङ् । २ । १ । ६६ । मिवर्जितो धोर्विहि तस्त्यः कृत्संज्ञो भवति । इति कर्तरि भवति । स सवी प्रयोगीत् । ककारः विछतीति विशेषणार्थः । वकारः प्राक्क्तेर्वा ऽसम इति सति साम्ये बाधनार्थः । इकारः उच्चारणार्थः । पकारः पिति कृति तुगिति विशेषणार्थः । ततः कृदंतस्य मृत्संज्ञायां स्वादिविधिः प्राप्तः । क्षीर अम् पा इति स्थिते सुप् सुपेत्यधिकृत्य -
१६२ | वागमिङ् । १ । ३ । ८५ । मिङ्वर्जितं वाक्संज्ञ कृदंतनोत्तरपदेन सह नित्यं षसो भवति । अमिति प्रतिषेधवचनं ज्ञापकं तिवाक्कारकाणां कृद्भिः सह सुबुत्पत्तेः प्राकू एव सो भवतीति । किं वाग्संज्ञं ।
|
१६३ । ईषा वाक्' । २ । १ । ६७ । तत्र धोरधिकारे ईपा निर्दिष्टस्य वाक् संज्ञा भवति । इति वाक् संज्ञा ।
१६४ | सुपो धुम्दोः | १ | ४ | १६७ । धुमृदोरवयवभूतस्य सुप उप् भवति । इति सुप उप् ।
४१
१६५ | वो पूर्व । १ । ३ । १०६ । साधिकारे वया दिभवत्योक्तं पूर्वं प्रयोक्तव्यं । इति क्षीरशब्दस्य पूर्वनिपातः । क्षीरपा इत्येतस्मात् स्वादिविधिः स्रुटि नास्ति विशेषः । क्षीरपाः, क्षीरपौ, क्षीरपाः । संबोधनेप्येवं । क्षीरपां, क्षीरपौ । शसादा
१। अस्य स्थाने पात्र बाकू । २ । ९ । ७९ इति स । २ । अस्य स्थाने वोक्तं न्यक् | १ | ३ | ९३ । इति सूत्रं ।