________________
अंजताः पुंलिंगाः। १४४ । दावुर्दोमोऽदसोऽसेः।५।३ । ११६ । अदसोऽकारीभूतसकारांतस्य दकारात्परम्य वणमात्रस्य च उत्वं तुकारस्य च मत्वमिति कर्तव्यं । स्वस्याभाव्योऽत्परः इति प्रथक ननिर्देशात् भाव्योऽपि स्वस्य ग्राहको भवर्तीति स्वासन इति द्विमानस्याकारस्य द्विमात्र ऊकारो भवति । अम् । जसि अदे इति स्थिते
१४५ । बहुवेरी । ५ । ३ । ११८ । अदसो बहुवे निष्पन्नस्य एकारस्य ईकारो भवति । उत्वापवादो दम्य च मत्वं । अमी। संबोधनेऽप्यविशेषः । अमि पूर्ववदत्वमत्वमुत्वं च | अमुं। औटि पूर्ववत् । अमू । शसि दीत्वे न्पुंसीति नत्वं । पूर्वरदन्यत् । अमून् । टा सुपि-अमु आ इति स्थिते .
१४६ । यो नाऽस्त्रिया।।२।१२६ । सोः परस्य अस्त्रियां विहितम्य टा इत्येतस्य ना इत्यादेशो भवति । इति नाभावे कर्तव्ये मुभावस्यासिद्धत्वादप्राप्ते सुलक्षणे नाभाचे
१४७ । न मुदाविधौ । ५। ३।३७। दा इत्येतस्य विधिष्टाविधिस्तस्मिन् कर्तव्ये न मुभावोऽसिद्धः । इति नामावे कृते घुनर्मुल्वस्यासिद्धत्वात् सुपीति दीत्वे प्रासे टा इत्येतस्मिन् विधिस्तस्मिन्निति च विद्महे मुभावस्य सिद्धत्वात् दीत्वं न भवति । अमुना । भ्यामि सुपीति दीत्वे सत्युलं मत्वं च । अमूभ्यां ।
१ । अस्य स्थाने-वहावीरेतः ५।३.८९॥ इति सत्र २। अस्य स्थाने-आडो नाऽस्त्रियां । ५१२ । ११३। इति सूत्र ।