________________
जैनेंद्रप्रक्रियायां-- जम्कासडिप्वेव विशेषोऽन्यत्र सर्वशब्दवत् । पूर्व पूर्वाः । पूर्वस्मात् पूर्वात् । पूर्वस्मिन् पूर्वे । एवं परादयोऽपि नेयाः । त्यदादीनां सप्तानां अत्वस्य किमः कादेशस्य च विधानावकारांतत्वं । त्यद इति स्थिते पूर्ववस्वादिः इता च निवृत्तिः । "मुप्याष्ट्नः' इत्यधिकृत्य
१४१ । त्यदादेरः ।।१।१७७। त्यदादीनामकारांतादेशो भवति सुपि परतः । तास्थाने. तेऽल इति दकारस्यात्वं । एप्यत इति पररूपं । त्यदादेर इति प्रस्तुत्य
१४२ । तोः सोऽनंते सौ।५।१।१८०।त्यदादीनां तवर्गस्यानंते वर्तमानस्य सकारादेशो भवति सौ परतः । सर्वशब्दवदन्यत् । स्यः । त्यो । त्ये । हे स्य । हे त्यौ । हे त्ये । त्यं, त्यौ, त्यान् । त्येन, त्याभ्यां, त्यैः । त्यस्मै, त्याभ्या, त्येभ्यः । त्यस्मात् ,त्याभ्या,त्येभ्यः । त्यस्य,त्ययोः त्येषां । त्यस्मिन् ,त्ययोः, त्येषु । एवं तदादयोऽपि योज्याः । अदस् शब्दस्य तु विशेषः । अदम् इति स्थिते पूर्ववत् स्वादिरितां च निवृत्तिः । तोस्सोऽनंते साविति अधिकृत्य
१४३ । असौ।५।१।०१। असावित्यदसः सकारस्य औकारादेशो भवति । अखापवादः। सोश्च ख निपात्यते । तोस्सोऽनंते साविति दकारस्य च सकारः । एच्यम् । असौ । अदस औ इति स्थिते-त्यदायत्वे पररूपे ऐपि च कृते
३ । भस्य स्थाभेतोः सः सावनन्ते । ५। १ । १६४ इति सूत्र