________________
जैनेंद्रप्रक्रियायां-- १।सात्मेतादिः ।११। इता सहोच्चार्यमागोवर्णः समुदायो वा आदिभूतस्तन्मध्यपतितानां संज्ञा भवत्यात्मना सह । कथमित्संज्ञा
२। अप्रयोगीत् । १।२। इद्द शास्त्रे संव्यवहारायोपदिश्यमानो वर्ण: समुदायो वा यो लौकिकशब्दप्रयोग न श्रूयते स इत्संज्ञो भवति । शास्त्रे कार्यार्थमापद्यमानो लोके चालूयमाणो यः स इत्संझो भवति इत्यर्थः । एवं अच् हल् बल् इत्यादयो योज्याः । यस्येत्संज्ञा तस्य लोपः । कथं पुनरिहानुपदिष्टा द्विमात्रत्रिमात्रा दीर्वप्लुता गृह्यते । स्वग्रहणात् । कथं---
३। स्वस्थाभाध्योऽत्परोऽणुदित् ।१ ।१ ।, अण च उदिच्च गृह्यमाणः स्वस्य ग्राहको भवति आत्मना सह : भाव्यं तपरं च वर्जयित्वा । इत्यणा द्वित्रिमात्राणां ग्रहरा भवति। कोऽयं भाव्यः----
आदेशः प्रत्ययश्चैव कटमितो हि लक्षणे ।
भाव्यशब्दन पंचते कथ्यते देवनंदिभिः ।। तपरं किं नाम
तात्परं च तत्पूर्वं च स्वं न गृह्णात्य कुलं ! विग्रहद्वयसंकल्पाद्यथाऽदेबिति स्मृतौ ॥
१। अस्य स्थाने महावृत्ती अंत्यनेतादिः ।११। ७३ । इति सूत्रमुपलभ्यते ।२ अस्य स्थाने महावृत्ती कार्याधाऽप्रयोगात ! १।२।३ । इति सूत्रं वर्तत । ३ अस्य स्थाने महावृत्ती-अणुदिस्वस्यामनाऽभावनाऽतपरः । १।१।७२ । इति सूत्रं दृश्यते ।